________________
Jain Ed
मन्दताऽपि न स्यात्, अथास्ति ज्ञानस्य ज्ञानावरणीयं कर्म बाधकं, ज्ञानावरणीयकर्ममन्दतायां च ज्ञानस्यापि मनाक् मन्दता, अथ च प्रबलज्ञानावरणीय कर्मोदयोत्कर्षेऽपि न ज्ञानस्य निरन्वयो विनाशः, एवं प्रतिपक्षभावनोत्कर्षेऽपि न रागादीनामत्यन्ततयोच्छेदो भविष्यतीति, तदयुक्तम्, द्विविधं हि बाध्यं - सहभूखभावभूतं सहकारिसम्पाद्यस्वभावभूतं च तत्र यत्सहभूस्वभावभूतं तन्न कदाचिदपि निरन्वयं विनाशमाविशति, ज्ञानं चात्मनः सहभूखभावभूतम्, आत्मा च परिणामिनित्यः, ततोऽत्यन्तप्रकर्षवत्यपि ज्ञानावरणीयकम्र्म्मादये न निरन्वयविनाशो ज्ञानस्य, रागादयस्तु लोभादिकर्मविपाको दयसम्पादितसत्ताकाः, ततः कर्मणो निर्मूलापगमे तेऽपि निर्मूलमपगच्छन्ति, नन्वासतां कर्मसम्पाद्या रागादयः तथापि कर्मनिवृत्तौ ते निवर्त्तन्ते इति नावश्यं नियमो न हि दहननिवृत्तौ तत्कृता काष्ठेऽङ्गारता निवर्त्तते, तदसत्, यत इह किञ्चित् क्वचिन्निवर्त्य विकारमापादयति, यथाऽग्निः सुवर्णे द्रवतां, तथाहि - अभिनिवृत्तौ तत्कृता सुवर्णे द्रवता निवर्त्तते किञ्चित्पुनः क्वचिदनिवर्त्स्यविकारारम्भकं, यथा स एवाग्निः काष्ठे, न खलु श्यामतामात्रमपि काष्ठे दहनकृतं तन्निवृत्तौ निवर्त्तते, कर्म चात्मनि निवर्त्यविकारारम्भकं, यदि पुनरनिवर्त्स्यविकारारम्भकं भवेत्तर्हि यदपि तदपि कर्म्मणा कृतं न कर्मनिवृत्तौ निवर्त्तेत, यथाऽग्निना श्यामतामात्रमपि काष्ठकृतमग्निनिवृत्तौ ततश्च यदेकदा कर्म्मणाऽऽपादितं मनुष्यत्वममरत्वं कृमिकीटत्वं अज्ञत्वं शिरो - | वेदनादि तत्सर्वकालं तथैवावतिष्ठेत, न चैतदृश्यते, तस्मान्निवर्त्त्यविकारारम्भकं कर्म्म, ततः कर्म्मनिवृत्तौ रागादी
iternational
For Personal & Private Use Only
ज्ञानस्य सहभूखभावता.
१५
१०
१३
www.jainielibrary.org