SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीमलय करागक्षय संवाददर्शनात् मोक्षादिषु च युक्त्योपपद्यमानत्वाद्भगवानेव सर्वज्ञो न सुगतादिरिति स्थितम् ॥ तथा 'भद्रं जिनस्य गिरीया वीरस्य' जयति रागादिशत्रुगणमिति जिनः, औणादिको नक्प्रत्ययः, तस्य भद्रं भवतु, अनेनापायातिशयमाह,I नन्दीवृत्तिः हा अपायो-विश्लेषः तस्यातिशयः-प्रकर्षभावोऽपायातिशयो, रागादिभिः सहात्यन्तिको वियोग इत्यर्थः, ननु रागादिभिः आत्यन्ति॥३१॥ सहात्यन्तिको वियोगोऽसम्भवी, प्रमाणवाधनात् , तच्च प्रमाणमिदं-यदनादिमत् न तद्विनाशमाविशति, यथाऽऽकाशं, सिद्धिः अनादिमन्तश्च रागादय इति, किञ्च-रागादयो धर्माः, ते च धर्मिणो भिन्ना अभिन्ना वा ?, यदि भिन्नाः तार पामविशेषेण वीतरागत्वप्रसङ्गः, रागादिभ्यो भिन्नत्वाद्, विवक्षितपुरुषवत् , अथाभिन्नाः तर्हि तत्क्षये धर्मिणोऽप्या-18 त्मनः क्षयः, तदभिन्नत्वात् , तत्खरूपवत् , तथा च कुतस्तस्य वीतरागत्वं ?, तस्यैवाभावादिति, अत्रोच्यते, इह यद्यपि रागादयो दोषा जन्तोरनादिमन्तः तथापि कस्यचित् स्त्रीशरीरादिषु यथावस्थितवस्तुतत्त्वावगमेन तेषां रागादीनां प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृश्यते, ततः सम्भाव्यते विशिष्टकालादिसामग्रीसद्भावे भावनाप्रकर्षविशेष-12 हुभावतो निर्मूलमपि क्षयः, अथ यद्यपि प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृष्टस्तथापि तेषामालन्तिकोऽपि क्षयः | सम्भवतीति कथमवसेयम् ?, उच्यते, अन्यत्र तथाविधप्रतिबन्धग्रहणात् , तथाहि-शीतस्पर्शसम्पाद्या रोमहर्षादयः शीतप्रतिपक्षस्य वर्मन्दतायां मन्दा उपलब्धाः उत्कर्षे च निरन्वयविनाशधर्माणः, ततोऽन्यत्रापि बाधकस्य मन्दतायां वाध्यस्य मन्दतादर्शनाद् बाधकोत्कर्षेऽवश्यं वाध्यस्य निरन्वयविनाशो वेदितव्यः, अन्यथा बाधकमन्दतायां Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy