________________
रागादयः प्रथमतः क्षणमात्रसुखदायितया रमणीयाः प्रतिभासन्ते तथापि ते परिणामपरम्परयाऽनन्तदःखसह
विषयाणां नरकादिदुःखसम्पातहेतवः, ततः पर्यन्तदारुणतया विषान्नभोजनसमुत्थमिव न रागादिप्रभवं सुखमुपादेयं प्रेक्षावतां
हेयता. भवति, प्रेक्षावन्तो हि बहुदुःखमपहाय यदेव बहुसुखं तदेव प्रतिपद्यन्ते, यस्तु स्तोकसुखनिमित्तं बहुदुःखमाहै द्रियते स प्रेक्षावानेव न भवति, किन्तु कुबुद्धिः, रागादिप्रभवमपि च सुखमुक्तनीत्या बहुदुःखहेतुकम्, अप-2
वर्गसुखं चैकान्तिकात्यन्तिकपरमानन्दरूपं, ततः तदेव तत्त्ववेदिनामुपादेयं, न रागादिप्रभवमिति, यदि पुनर्य-1Bा. दपि तदपि सुखमभिलषणीयं भवतः तर्हि पानशौण्डानां यत् मद्यपानप्रभवं यच गर्त्ताशूकराणां पुरीषमक्षणसमुत्थं 8 यच रक्षसां मानुषमांसाभ्यवहारसम्भवं यच्च दासस्य सतः खामिप्रसादादिहेतुकं यदपि च पारसीकदेशवासिनो मात्रादिश्रोणीसङ्गमनिबन्धनं तत्सर्वं भवतो द्विजातिभवे सति न सम्पद्यते इति पानशौण्डाद्यप्यभिलषणीयम् , अपिच-नरकदुःखमप्राप्तस्य न तद्वियोगसम्भवं सुखमुपजायते ततो नरकदुःखमप्यभिलपणीयं, अथ विशिष्टमेव
सुखमभिलषणीयं न यत्किञ्चित् तर्हि विशिष्टमेकान्तेन सुखं मोक्ष एव विद्यते न रागादौ क्षुदादौ वा तस्मात्तदेवाभितलषणीयं न शेषमिति । योऽपि च सम्यग्दर्शनज्ञानचारित्ररूपो मोक्षमार्ग उक्तः सोऽपि युक्त्या विचार्यमाणः प्रेक्षा-2
वतामुपादेयतामश्नुते, तथाहि-सकलमपि कर्मजालं मिथ्यात्वाज्ञानप्राणिहिंसादिहेतुकं ततः सकलकर्मनिम्मूलनाय सम्यग्दर्शनाद्यभ्यास एव घटते, नान्यत् , तदेवं भगवदुपदिष्टेषु शक्यपरिच्छेदेष्वनुमेयेषु च यथाक्रमं प्रत्यक्षानुमान-18|१३
OCOCCASSOCROSSES
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org