SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥ ३० ॥ ततोऽवश्यं परान् प्रतिपादयता भगवता परैः शक्य परिच्छेदमप्युपदेष्टव्यं शक्यपरिच्छेदेषु चार्थेषु भगवदुक्तेषु यत्तथाप्रमाणेन संवेदनं तत्तद्विषयं साधकं प्रमाणमुच्यते, विपरीतं तु बाधकं, अस्ति च भगवदुक्तेषु शक्यपरिच्छेदेष्वर्थेषु प्रमासंवादः, तथाहि - घटादयः पदार्था अनेकान्तात्मका उक्ताः, ते च तथैव प्रत्यक्षतोऽनुमानतो वा निश्चीयन्ते, मोक्षोऽपि च परमानन्दरूपशाश्वतिक सौख्यात्मक उक्तः, ततः सोऽपि युक्त्या सङ्गतिमुपपद्यते, यतः संसारप्रतिपक्षभूतो मोक्षः संसारे जन्मजरामरणादिदुःखहेतवो रागादयः ते च निर्मूलमपगता मोक्षावस्थायामिति न मोक्षे दुःखलेशस्यापि सम्भवः, न च निर्मूलमपगता रागादयो भूयोऽपि जायन्ते ततः तत्सौख्यं शाश्वतिकमुपवर्ण्यते, ननु यदि न तत्र रागादयस्तर्हि न तत्र मत्तकामिनीगाढालिङ्गनपीनस्तनापीडनवदनचुम्वन कराघातादिप्रभवं रागनिबन्धनं सुखं नापि द्वेषनिबन्धनं प्रबलवैरितिरस्कारापादनप्रभवं नापि मोहनिबन्धनमहङ्कारसमुत्थमात्मीयविनीतपुत्रभ्रातृप्रभृतिबन्धुवर्गसहवाससम्भवं च ततः कथमिव स मोक्षो जन्मिनामुपादेयो भवति ?, आह च - " वीतरागस्य न सुखं, योषिदालिङ्गनादिजम् । वीतद्वेषस्य च कुतः, शत्रुसेनाविमर्द्दजम् ? ॥ १ ॥ वीतमोहस्य न सुखमात्मीयाभिनिवेशजम् । ततः किं तादृशा तेन कृत्यं मोक्षेण जन्मिनाम् ? ॥ २ ॥ अपि च क्षुद्रादयोऽपि तत्र सर्वथा निवृत्ता इष्यन्ते, ततोऽत्यन्तबुभुक्षाक्षामकुर्यद् विशिष्टाहार भोजनेन यद्वा ग्रीष्मादौ पिपासापीडितस्य पाटलाकुसुमादिवासितसुगन्धिशीतसलिलपानेनोपजायते सुखं तदपि तत्र दूरतोऽपास्तप्रसरमिति किं कार्य तेन, तदेतदतीवासमीचीनं, यतो यद्यपि Jain Education International For Personal & Private Use Only सर्वज्ञसिद्धिः. १५ २० ॥ ३० ॥ २५ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy