________________
असत्यतामश्नुवीरन् , अथ तीर्थान्तरीयसम्मततीर्थकरोपदिष्टाः पदार्थराशयोऽनुमानप्रमाणेन बाध्यन्ते ततो न ते सत्याः,
तदयुक्तम् , अनुमानप्रमाणेनातीन्द्रियज्ञानस्य बाधितुमशक्यत्वात्, आह च-"अतीन्द्रियानसंवेद्यान् , पश्यन्या-3I हर्षेण चक्षुषा । ये भावान् वचनं तेषां, नानुमानेन वाध्यते ॥ १॥" अथ सम्भवंति जगति प्रज्ञालवोन्मेषदुर्विदग्धाः & कुतर्कशास्त्राभ्याससम्पर्कतो वाचालाः तथाविधाद्भुतेन्द्रजालकौशलवशेन दर्शितदेवागमनभोयानचामरादिविभूतयः
कीर्तिपूजादिलब्धुकामाः स्वयमसर्वज्ञा अपि सर्वज्ञा वयमिति ब्रुवाणाः, तत एतावदेव न ज्ञायते यदुत-तेषां सर्वोत्तमप्रकर्षरूपमतीन्द्रियज्ञानमभूत् , यदि पुनर्यथोक्तखरूपमतीन्द्रियज्ञानमभविष्यत् तर्हि वचनमपि तेषां नाबाधिष्यत,8 अथ च दृश्यते बाधा ततस्ते कैतवभूमयो न सर्वज्ञा इति प्रतिपत्तव्यम् , तदेतदहत्यपि समानं, न समानम् , अहंद्वचसि प्रमासंवाददर्शनात् , उक्तं च-"जैनेश्वरे हि वचसि, प्रमासंवाद इष्यते । प्रमाणबाधा त्वन्येषामतो द्रष्टा जिनेश्वरः । ॥१॥" अथ पुरुषमात्रसमुत्थं प्रमाणमतीन्द्रियविषये न साधकं नापि बाधकमविषयत्वात् , समानकक्षतायां हि
बाध्यबाधकभावः, तथा चोक्तम्-"समानविषया यस्माद्बाध्यबाधकसंस्थितिः । अतीन्द्रिये च संसारिप्रमाणं न प्रवर्त्तते । है ॥१॥" ततः कथमुच्यते-अर्हतो वचसि प्रमासंवाददर्शनं प्रमाणबाध्यत्वमन्येषामिति ?, तदपि न सम्यक् , यतो न
भगवान् केवलमतीन्द्रियमस्मादृशामशक्यपरिच्छेदमेवोपदिशति, यदि पुनः तथाभूतमुपदिशेत् तर्हि न कोऽपि तद्वचनतः प्रवर्तेत, अतीन्द्रियार्थ वचः सर्वेषामेव विद्यते परस्परविरुद्धं च, ततः कथं तद्वचनतः प्रेक्षावतां प्रवृत्तिः,
Jain Educati
o nal
For Personal & Private Use Only
brow.jainelibrary.org