SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सर्वज्ञ उत्पद्यते तेन तेन तत्तत्कल्पवर्त्तिनां तीर्थकृतां सर्वेषामप्यवश्यं चरितानि वक्तव्यानि, ततो न ऋषभाद्यभिधानमर्थवादः, यदप्यभिहितं-'नाप्युपमानप्रमाणगम्य इत्यादि, तदप्ययुक्तम् , एकं सर्वशं यदा व्यवहारतो यथावद्विनिश्चित्यान्यमपि 81 सर्व व्यवहारतः परिज्ञाय एषोऽपि सर्वज्ञ इति व्यवहरति तदा कथं नोपमानप्रमाणविषयः ?, अर्थापत्तिगम्योऽपि भगवान् , अन्यथाऽऽगमार्थस्य परिज्ञानासम्भवात् , न खल्वतीन्द्रियार्थदर्शनमन्तरेणागमस्यार्थोऽतीन्द्रियः पुरुषमात्रेण यथावदवगन्तुं शक्यते, तत आगमार्थपरिज्ञानान्यथानुपपत्त्या सर्वज्ञोऽवश्यमभ्युपगन्तव्यः, एतेन यदुक्तं प्राक्-'कि-2 मिदानीं सर्वज्ञेन ?, आगमादेव धर्माधर्मव्यवस्थासिद्धेरिति, तत्प्रतिक्षिप्तमवसेयं, सर्वज्ञमन्तरेणागमार्थस्यैव सम्यक् , परिज्ञानासम्भवात्, यचोक्तम्-'सर्व वस्तु जानाति भगवान् केन प्रमाणेने त्यादि, तत्र प्रत्यक्षेणेति पक्षः, तदपि च प्रत्यक्षमतीन्द्रियमवसेयम् , ननु तत्राप्युक्तम्-'तस्यास्तित्वे प्रमाणाभावादिति, उक्तमिदमयुक्तं तूक्तम् , तदस्तित्वेऽनु-12 मानप्रमाणसद्भावाद, तच्चानुमानमिदं-यत्तारतम्यवत् तत्सर्वान्तिमप्रकर्षभाक्, यथा परिमाणं, तारतम्यवञ्चेदं ज्ञान-13 मिति, न चायमसिद्धो हेतुः, तथाहि-दृश्यते प्रतिप्राणि प्रज्ञामेधादिगुणपाटवतारतम्यं ज्ञानस्य, ततोऽवश्यमस्य सर्वान्तिमप्रकर्षण भवितव्यम् , यथा परिमाणस्याकाशे, सर्वान्तिमप्रकर्षश्च ज्ञानस्य सकलवस्तुस्तोमप्रकाशकत्वं, अथ यद्विपयः तरतमभावः सर्वान्तिमप्रकर्षोऽपि तद्विषय एव युक्तः, तरतमभावश्चेन्द्रियाश्रितस्य ज्ञानस्योपलब्धः, ततः सर्वान्तिमप्रकर्षोऽपि तस्यैवेति कथमतीन्द्रियज्ञानसम्भवः१, इन्द्रियाश्रितस्य च ज्ञानस्य प्रकर्षभावेऽपि न सर्वेविषयता, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy