SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ १६ - श्रीमलय- च्छयते यच्च यच्च खचेतसि प्रष्टा चिन्तयति तत्तत्सर्वं प्रत्ययपूर्वमुपदिशति, ततोऽसौ ज्ञायते यथा सर्वज्ञ इति, तेन य-18 सर्वज्ञ गिरीया नन्दीवृत्तिः दुच्यते भट्टेन-'सर्वज्ञोऽसाविति ह्येतत् , तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ? ॥ १॥ साद्ध ॥२५॥ 1 इति, तदपास्तं द्रष्टव्यम्, पृष्टचिन्तितसकलपदार्थप्रकाशनेन तस्य सर्वज्ञत्वनिश्चयात् , नन्वेवं व्यवहारतो निश्चयो न है निश्चयतो, निश्चयतो हि तदा सर्ववेदी विदितो भवति यदा तज्ज्ञेयं सर्वं विदित्वा सर्वत्र संवादो गृह्यते, न चै तत्कर्तुं शक्यम्, अथैकत्र संवाददर्शनादन्यत्रापि संवादी द्रष्टव्यः, एवं तर्हि मायावी बहुजल्पाकः सर्वोऽपि सर्वज्ञः प्राप्नोति, तस्याप्येकदेशसंवाददर्शनाद् , आह च-“एकदेशपरिज्ञानं, कस्य नाम न विद्यते ? । न ह्येकं नास्ति सत्यार्थ,81 पुरुषे बहुजल्पिनि ॥१॥” तदयुक्तम् , व्यवहारतोऽपि निश्चयस्य सम्यगनिश्चयत्वात् , वैयाकरणादिनिश्चयवत् , तथाहि-वैयाकरणः कतिपयपृष्टशब्दव्याकरणादयं सम्यग्वैयाकरण इति निश्चीयते, एवं पृष्टचिन्तितार्थप्रकाशनात् स-| ज्ञोऽपि, न चैवं मायाविनोऽपि सर्वज्ञत्वप्रसङ्गः, मायाविनि सर्वेषु पृष्टेषु चिन्तितेषु चार्थेषु संवादायोगात्', निपुणेन च प्रतिपत्रा भवितव्यम् , अथ वैयाकरणोऽन्येन वैयाकरणेन सकलव्याकरणशास्त्रार्थसंवादनिश्चयतोऽपि ज्ञातुं ॥२५॥ शक्यते, ननु सर्वज्ञोऽप्यन्येन सर्वज्ञेन यथावत् ज्ञातुं शक्य एवेति समानम् , अथ तदानीमन्येन सर्वज्ञेन निश्चयतो " विज्ञायताम् इदानीं तु स कथं ज्ञायते ?, उच्यते, इदानीं तु सम्प्रदायादव्याहतप्रवचनार्थप्रकाशनाच्च, यदप्यवादीत'ऋषभः सर्वज्ञो वर्द्धमानखामी सर्वज्ञ इत्यादिरर्थवादः प्राप्नोतीत्यादि' तदप्यसारम् , आगमे ह्ययं कल्पो यो यः सर्वज्ञ ||२६ www.jainelibrary.org Jain Educat For Personal & Private Use Only i onal
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy