________________
सर्वदा विद्यमानान्यपि वस्तून्यनन्तानि ततः संसारं वस्तूनि च क्रमेण विदन् कथमनन्तेनापि कालेन सर्ववेदी भविष्यति ?, उक्तं च- ' क्रमेण वेदनं कथ' मिति, अत्र प्रतिविधीयते -तत्र यत्तावदुक्तं 'सर्वजगदुद्योतकत्वं भगवतः केन प्रमाणेन प्रतीयते ? इत्यादि तत्रागमप्रमाणादिति ब्रूमः स चागमः कथञ्चिन्नित्यः प्रवाहतोऽनादित्वात्, तथाहि — यामेव द्वादशाङ्गीं कल्पलताकल्पां भगवान् ऋषभस्वामी पूर्वभवेऽधीतवान्, अधीत्य च पूर्वभवे इहभवे च यथावत्पर्युपास्य फलभूतं केवलज्ञानमवाप्तवान्, तामेवोत्पन्न केवलज्ञानः सन् शिष्येभ्य उपदिशति, एवं सर्वतीर्थकरेष्वपि द्रष्टव्यम्, ततोऽसावागमोऽर्थरूपापेक्षया नित्यः, तथा च वक्ष्यति - " एसा दुवालसङ्गी न कयावि नासी न कयावि न भवइ न कयावि न भविस्सइ, धुवा नीया सासया अक्खया अब्वया अव्वाबाहा अवट्ठिया निच्चा" इति, अस्मिंश्चागमे यथा संसारी संसारं पर्यटति यथा कर्म्मणामभिसमागमो यथा च तपः संयमादिना कर्मणामपगमे केवलाभिव्यक्तिः तथा सर्व प्रतिपाद्यते इति सिद्ध आगमात्सर्वज्ञः । यदप्युक्तम् -'स पौरुषेयो वा' इत्यादि, तत्रार्थतोऽपौरुषेयः, स च न सर्वज्ञप्रकाशितत्वादेव प्रमाणं, किन्तु कथञ्चित् खतोऽपि निश्चिताविपरीतप्रत्ययोत्पादकत्वात्, ततो नेतरेतराश्रयदोषप्रसङ्गः, सर्वज्ञप्रणीतत्वावगमाभावेऽपि निश्चिताविपरीतप्रत्ययोत्पादकतया तस्य प्रामाण्यनिश्चयात्, ततः सर्वज्ञसिद्धिः, अथैवमागमात् सर्व्वज्ञः सामान्यतः सिद्ध्यति न विशेषनिर्देशेन यथाऽयं सर्वज्ञ इति, ततः कथं सर्वज्ञकालेऽपि सर्व्वज्ञोऽयमिति व्यवहारः १, उच्यते, पृष्टचिन्तितसकलपदार्थप्रकाशनात् तथाहि - यद् यद् भगवान् पृ
Jain Education International
For Personal & Private Use Only
सर्वज्ञसिद्धिः.
१०
१३
www.jainelibrary.org