________________
श्रीमलय- तस्य सूक्ष्मादावप्रवृत्तेः, अथोच्येत-मनोज्ञानमप्यतीन्द्रियज्ञानमुच्यते, तस्य च तरतमभावः शास्त्रादौ दृष्ट एव, गिरीया तथाहि-तदेव शास्त्रं कश्चित् झटित्येव पठति अवधारयति च, अपरस्तु मन्दं, बोधतोऽपि कश्चिन्मुकुलितार्थावबोधमपरो | सिद्धिा. नन्दीवृत्तिः
विशिष्टावबोधं, एवमन्याखपि कलासु यथायोगं मनोविज्ञानस्य तारतम्यं परिभाव्यते, ततः तस्य सर्वान्तिमः प्रकर्षः | ॥२६॥ सर्वविषयो भविष्यति, तदसद् ,यतो मनोविज्ञानस्यापि तरतमभावः शास्त्राद्यालम्बन एवोपलब्धः ततः प्रकर्षभावोऽपि 31
|तस्य शास्त्राद्यालम्बन एव युक्त्योपपद्यते, न सर्वविषयः, न खल्वन्यविषयोऽभ्यासोऽन्यविषयं प्रकर्षभावमुपजनयति, तथाऽनुपलब्धेः, उक्तं च-"शास्त्राद्यभ्यासतः शास्त्रप्रभृत्येवावगच्छतः । साकल्यवेदनं तस्य, कुत एवागमिष्यति ॥१॥" अत्रोच्यते, इह तावदिन्द्रियज्ञानाश्रितः तरतमभावो न ग्राह्यः, अतीन्द्रियप्रत्यक्षसाधनाय हेतोरुपन्यासात् , तथाहिसकलवस्तुविषयमतीन्द्रियप्रत्यक्षमिदानीं साधयितुमिष्टं, ततः तरतमभावोऽपि हेतुत्वेनोपन्यस्तोऽतीन्द्रियज्ञानस्यैव |8|२० |वेदितव्यः, अन्यथा भिन्नाधिकरणस्य हेतोः पक्षधर्मत्वायोगात्, साक्षाचातीन्द्रियग्रहणं न कृतं, प्रस्तावादेव लब्धत्वात्,
अतीन्द्रियं च ज्ञानमिन्द्रियानाश्रितं सामान्येन द्रष्टव्यम् , तेन मनोज्ञानमपि गृह्यते, यदप्युक्तम्-'मनोज्ञानस्यापि तरतमभावः शास्त्राद्यालम्बन एवेति प्रकर्षभावोऽपि तद्विषय एव युक्त' इति, तदप्यसमीचीनं, शास्त्राद्यतिक्रान्तस्यापि
तरतमभावस्य सम्भवात् , तथाहि-योगिनः परमयोगमिच्छन्तःप्रथमतः शास्त्रमभ्यसितमुद्यतन्ते. यथाशक्ति च शास्त्रा६नुसारेण सकलमप्यनुष्ठानमनुतिष्ठन्ति, मा भूत्किमपि क्रियावैगुण्यं प्रमादाद्योगाभ्यासयोग्यताहानितिकृत्वा, ततो
MASSASSIS
CHORROR
રક
Jain Educational
For Personal & Private Use Only
www.jainelibrary.org