________________
थनम्.
भगवतः सर्वोत्कृष्टवक्तृत्वदर्शनात् सर्वोत्कृष्टं संवेदनमनुमीयते, अपरस्त्वाह-वचनं वितर्कविचारपुरस्सरं, तथोपल- सर्वदिनो म्भाव, वितर्कविचारौ च विकल्पात्मको, विकल्पस्त्वस्पष्टप्रतिभासः, ततो भगवतोऽपि देशनां कुर्वतोऽस्पष्टप्रतिभासं है
भ्रान्ताभ्रा
न्तत्वकवैकल्पिकं ज्ञानं प्रसक्तं, तच भ्रान्तमिति कथमन्नान्तः सर्ववेदी ?, तदसद् , यतो वितर्कविचारावन्तरेणापि केवलज्ञानेन यथावस्थितं वस्तूपलभ्य भगवान् वचनं परावबोधाय प्रयुक्ते, यथा शब्दव्यवहारनिष्णातः प्रत्यक्षतः स्तम्भमुपलभ्य स्तम्भशब्दं, न च तस्य तथा स्तम्भशब्दं प्रयुानस्य वितर्कविचारी, नापि ज्ञानस्यास्पष्टप्रतिभासता, तथाऽननुभवाद्, एवं भगवतोऽपि द्रष्टव्यम् , उक्तं चान्यैरपि-"न चास्पष्टावभासित्वादेव शब्दः प्रवर्तते। प्रत्यक्षदृष्टे स्तम्भादावपि शब्दप्रवर्त्तनात् ॥१॥ अयं स्तम्भ इति प्राप्तमन्यथाऽस्याप्रवर्तनम् । न चास्पष्टावभासित्वमत्र ज्ञानस्य लक्ष्यते ॥ २॥18 तथाऽन्यत्रापि शब्दानां, प्रवृत्तिन विरुध्यते" इति। तदेवं यतो भगवान सर्वश्रुतानां प्रभवः सर्वतीर्थकृतां चापश्चिमस्तीर्थकरः ततः सकलसत्त्वानां गुरुः, तथा चाह-'जयति गुरुर्लोकाना मिति लोकानां सत्त्वानां गृणाति प्रवचनार्थमिति गुरुः, प्रवचनार्थप्रतिपादकतया पूज्य इत्यर्थः। तथा 'जयति महात्मा महावीरः' महान्-अविचिन्त्यशक्त्युपेत आत्मा
स्तुत्युपस्वभावो यस्य स महात्मा, 'शूर वीर विक्रान्तौ वीरयति स्मेति वीरो-विक्रान्तः, महान्-कषायोपसर्गपरिषहेन्द्रियादि- संहार: शत्रुगणजयादतिशायी विक्रान्तो महावीरः अथवा 'ईर गतिप्रेरणयोः' विशेषेण ईरयति-गमयति स्फेटयति कर्म प्रापयति वा शिवमिति वीरः, अथवा '(क)रि गतौ' विशेषेण-अपुनर्भावेन इयर्ति स्म-याति स्म शिवमिति वीरः महांश्चासौ वी
Jain Educatiemational
For Personal & Private Use Only
www.jainelibrary.org