SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीमलय- ताया रागत्वायोगाद्, अभिष्वङ्गलक्षणो हि रागो, न च भगवतः कापि अभिष्वङ्गः, किमर्थं तर्हि देशनेति चेत् ननूक्तं सर्वज्ञस गिरीया है तीर्थकरनामकर्मोदयात् , अमूढलक्षो हि भगवान् ततो यत्कर्म यथा वेधं तत्तथैवाभिष्वङ्गायभावेऽपि वेदयते, तथा वक्तृत्वस्थानन्दीवृत्तिः चाद्यापि दृश्यन्ते परमौचित्यवेदिनः क्वचित्प्रयोजनेऽवश्यकर्त्तव्यतामवेत्याभिष्वङ्गाद्यभावेऽपि प्रवर्त्तमानाः, तीर्थकर पनम्. २२॥ नामकर्म च देशनाविधानेन वेद्यम् , "तं च कहं वेइजइ ?, अगिलाए धम्मदेसणाईहिं" इति वचनात् , ततो न कश्चि-18| है दोषः, स्यादेतत्, मा भूद्रागादिकार्यतया वचनादसर्वज्ञतासिद्धिः, रागादिसहचरिततया तु भविष्यति, तथाहि-| रागादिसहचरितं सदैव वचनमुपलभ्यते, ततो वचनाद्रागादिप्रतीतावसर्वज्ञत्वसिद्धिः, तदयुक्तम् , सहदर्शनमात्रस्या गमकत्वाद्, अन्यथा क्वचिद्वक्तरि गौरत्वेन सह वचनमुपलब्धमिति गौरत्वाभावे कृष्णे वक्तरि न स्यात्, अथ च | ६ तत्राप्युपलभ्यते, तन्न सहदर्शनमात्रं गमकं, ततो विपक्षे व्यावृत्तिसन्देहाद्वक्तृत्वादिति सन्दिग्धानैकान्तिको हेतुः, २० अथवा विरुद्धोऽपि, विपक्षेण सह प्रतिबन्धनिश्चयात् , तथाहि-वचनं संवेदनादेवोपजायते, अन्वयव्यतिरेकाभ्यां तथानिश्चयात् , कथमन्वयव्यतिरेको प्रतीताविति चेत् ?, उच्यते, इह यथा यथा संवेदनमुत्कर्षमासादयति तथा तथा वचखिताया अप्युत्कर्ष उपलभ्यते, संवेदनोत्कर्षाभावे च वचखिताया अपकर्षा, मूर्खाणां स्थूलभाषितयोपल-3॥२२ । म्भात् , ततो यथा वृष्टितारतम्येन गिरिनदीपूरस्य तारतम्यदर्शनात् सर्वोत्कृष्टपूरदर्शने सर्वोत्कृष्टवृष्टयनुमानं तथेहापि १ तच कथं वेद्यते ?, अग्लान्या धर्मदेशनादिभिः । SANSAR SASSASSSSS dain Education International For Personal & Private Use Only & jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy