________________
MSRAMMADAMSAROSAMS
हारलक्षणः सहानवस्थानलक्षणश्च, तत्र परस्परपरिहारलक्षणः तादात्म्यप्रतिषेधे यथा घटपटयोः, न खलु घटः पटात्मको भवति नापि पटो घटात्मकः, 'न सत्ता सदन्तरमुपैतीति वचनात् , ततोऽनयोः परस्परपरिहारलक्षणो वि-1 रोधः, एवं सर्वेषामपि वस्तूनां भावनीयम् , अन्यथा वस्तुसाकर्यप्रसक्तेः, यस्तु सहानंवस्थानलक्षणो विरोधः स परस्परं ४ बाध्यबाधकभावसिद्धौ सिद्ध्यति, नान्यथा, यथा वह्निशीतयोः, तथाहि-विवक्षिते प्रदेशे मन्दं मन्दमभिज्वलितवांत वह्नीं शीतस्यापि मन्दं मन्दं भावः, यदा पुनरत्यथेमभिज्वाला विमुञ्चति वह्निः तदा संवेथा शीतस्याभाव इतिश५ भवत्यनयोर्विरोधः, उक्तं च-"अविकलकारणमेकं तदपरभावे यदा भवन्न भवेत् । भवति विरोधः स तयोः शी-11 तहुताशात्मनोदृष्टः ॥ १॥" न चैवं वचनसंवेदनयोः परस्परं बाध्यबाधकभावो, न हि संवेदने तारतम्येनोत्कर्षमा-161 सादयति वचखितायाः तारतम्येनापकर्ष उपलभ्यते, तत्कथमनयोः सहानवस्थानलक्षणो विरोधः ?, अथ सर्ववेदी वक्ता नोपलब्ध इति विरोध उद्देष्यते, तदयुक्तम्', अत्यन्तपरोक्षो हि भगवान्, ततः कथमनुपलम्भमात्रेण तस्याभावनिश्चयः?, अदृश्यविषयस्यानुपलम्भस्याभावनिश्चयकत्वायोगात्, आह च प्रज्ञाकरगुप्त:-"बाध्यबाधकभावः कः, स्यातां यद्युक्तिसंविदौ। तादृशोऽनुपलब्धिश्चेदुच्यतां सैव साधनम् ॥१॥ अनिश्चयकरं प्रोक्तमीक्षानुपलम्भनम् । तन्नात्यन्तपरोक्षेषु, सदसत्ताविनिश्चयौ ॥२॥" अथ वचनं विवक्षाधीनं विवक्षा च वक्तुकामता सा च रागो रागादिमतश्च १ सर्वज्ञत्वाभावो, वीतरागस्य सर्वज्ञत्वाभ्युपगमात् , ततः कथमिव वक्तृत्वात् नासर्वज्ञत्वानुमानमिति ?, तदसद् , वक्तुकाम
१३
Jain Educati
onal
For Personal & Private Use Only
Mimi.jainelfirary.org