________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥ २१ ॥
| स्तरमनोरथसहस्रवेला कलितं संसारसागरं तरन्ति येन तत्तीर्थ, तच्च सकलजीवाजीवादिपदार्थसार्थप्ररूपकं अत्यन्तानवद्यं | शेषतीर्थान्तरीयाविज्ञातचरणकरणक्रियाधारं सकलत्रैलोक्यान्तर्गतविशुद्धधर्मसम्पत्समन्वितमहापुरुषाश्रयमविसंवादि प्रवचनं तत्करणशीलाः तीर्थकराः तेषां तीर्थकराणाम् अस्मिन् भारते वर्षेऽधिकृतायामवसर्पिण्यां न विद्यते पश्चिमोsस्मादित्यपश्चिमः सर्वान्तिमः, पश्चिम इति नोक्तम्, अधिक्षेपसूचकत्वात्पश्चिमशब्दस्य, ननु सर्वोऽपि प्रेक्षावान् फलार्थी प्रवर्त्तते, अन्यथा प्रेक्षावत्ताक्षितिप्रसङ्गात्, ततोऽसौ तीर्थं कुर्वन्नवश्यं फलमपेक्षते, फलं चापेक्षमाणोऽस्मादृश इव व्यक्तमवीतरागः, तदयुक्तम्, यतः तीर्थकरनामकर्मोदयसमन्विताः सर्वेऽपि भगवन्तो वीतरागाः तीर्थप्रवर्त्त नाय प्रवर्त्तन्ते, तीर्थकरनामकर्म्म च तीर्थप्रवर्त्तनफलं ततो भगवान् वीतरागोऽपि तीर्थकरनामकर्मोदयतः तीर्थप्रवर्त्तनखभावः सवितेव प्रकाशमुपकार्योपकारानपेक्षं तीर्थं प्रवर्त्तयतीति न कश्चिद्दोषः, उक्तं च- 'तीर्थप्रवर्त्तनफलं यत्प्रोक्तं कर्म्म तीर्थकरनाम । तस्योदयात् कृतार्थोऽप्यहस्तीर्थं प्रवर्त्तयति ॥ १ ॥ तत्स्वाभाव्यादेव प्रकाशयति भास्करो यथा लोकम् | तीर्थप्रवर्त्तनाय प्रवर्त्तते तीर्थकर एवम् ॥ २ ॥” ननु तीर्थप्रवर्त्तनं नाम प्रवचनार्थप्रतिपादनं, प्रवचनार्थ | चेद्भगवान् प्रतिपादयति तर्हि नियमादसर्वज्ञः, सर्वस्यापि वक्तुरसर्वज्ञतयोपलम्भात्, तथा चात्र प्रयोगः - विवक्षितः पुरुषः सर्वज्ञो न भवति, वक्तृत्वाद्, रध्यापुरुषवदिति, तदसत्, सन्दिग्धव्यतिरेकतया हेतोरनैकान्तिकत्वात्, तथाहि - न वचनं सर्ववेदनेन सह विरुध्यते, अतीन्द्रियेण सह विरोधानिश्चयात्, द्विविधो हि विरोधः - परस्परपरि
Jain Education International
For Personal & Private Use Only
अपश्चिम
वीतराग
स्तुतिः.
१५
सर्वज्ञस्य वकृत्वे अधिक्षेपः,
२०
॥ २१ ॥
२५
ainelibrary.org