SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ वेदप्रामाण्यमित्येकाभावेऽन्यतरस्याप्यभावः, आह च-"शिष्टैः परिगृहीतत्वाचेदन्योऽन्यसमाश्रयः । वेदार्थाचरणाच्छिष्टास्तदाचाराच स प्रमा ॥ १॥" स्यादेतत्-भवतोऽपि तत्त्वतोऽपौरुषेयं वचनमिष्टमेव, तथाहि सर्वोऽपि टू सर्वज्ञो वचनपूर्वक एवेष्यते, "तप्पुविया अरिहया" इति वचनप्रामाण्यात् , ततोऽनादित्वात् सिद्धं वचनस्यापौरुषे यत्वमिति. तदयुक्तम, अनादितायामप्यपौरुषेयत्वायोगात, तथाहि-सर्वज्ञपरम्पराऽप्येषाऽनादिरिष्यते, ततः पूर्वः पूर्वः सर्वज्ञः प्राक्तनसर्वज्ञप्रणीतवचनपूर्वको भवन्न विरुध्यते, किं च-वचनं द्विधा-शब्दरूपमर्थरूपं च, तत्र शब्द-18 रूपवचनापेक्षया नायमस्माकं सङ्गरो, यदुत-सर्वोऽपि सर्वज्ञो वचनपूर्वक इति, मरुदेव्यादीनां तदन्तरेणापि सर्च-18 ज्ञत्वश्रुतेः, किन्त्वर्थरूपापेक्षया, ततः कथं शब्दापौरुषेयत्वाभ्युपगमप्रसङ्गः ?, नन्वर्थपरिज्ञानमपि शब्दमन्तरेण नो-12 पपद्यते, तत्कथं न शब्दरूपापेक्षयाऽपि सङ्गरः, तदसत् , शब्दमन्तरेणापि विशिष्टक्षयोपशमादिभावतोऽर्थपरिज्ञानसम्भ-15 वात् , तथाहि-दृश्यन्ते तथाविधक्षयोपशमभावतो मार्गानुसारिबुद्धेर्वचनमन्तरेणापि तदर्थप्रतिपत्तिरिति कृतं प्रस-1 झेन, प्रकृतं प्रस्तुमः । तत्र सर्वश्रुतप्रभवा ऋषभादयोऽप्यासीरन् न च ते सम्प्रति स्तोतुं प्रस्तुता इति तद्यवच्छेदार्थ वि- १० शेषणान्तरमाह-तीर्थकराणामपश्चिमो जयति, तत्र जन्मजरामरणसलिलसम्भृतं मिथ्यादर्शनाविरतिगम्भीरं महाभीम|कषायपातालं दुरवगाहमहामोहावतभीषणं रागद्वेषपवनविक्षोभितं विविधानिष्टेटसंयोगवियोगवीचीनिचयसङ्कलं उचै १ तत्पूर्विका अर्हत्ता। Jain Educ a nal For Personal & Private Use Only Aww.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy