________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥२२६॥
Jain Education
| होइ परिणामो । पावनिवित्तीय परा नेयं अण्णाणिणो उभयं ॥ २ ॥ ततो यदुक्तम्- 'अज्ञानमेव मुमुक्षुणा मुक्तिपथप्रवृत्तेनाभ्युपगन्तव्यं, न ज्ञान' मिति, तत्तेषां मूढमनस्कतासूचकमवगन्तव्यं, यदप्युक्तं - ' भवेत् युक्तो ज्ञानस्याभ्युपगमो यदि ज्ञानस्य निश्चयः कर्त्तुं पार्यते' इत्यादि, तदपि बालिशजल्पितं, यतो यद्यपि सर्वेऽपि दर्शनिनः परस्परं भिन्नमेव ज्ञानं प्रतिपन्नाः तथापि यद्वचो दृष्टेष्टबाधितं पूर्वापराव्याहतं च तत्सम्यग्रूपमवसेयं तादृग्भूतं च वचो भगवत्प्रणीतमेवेति तदेव प्रमाणं न शेषमिति, यदध्युक्तं - 'सुगतादयोऽपि सौगतादिभिः सर्वज्ञा इष्यन्ते' इत्यादि, तदप्यसत्, दृष्टेष्टबाधितवचनतया गतादीनाम सर्वज्ञत्वात् यथा च दृष्टेष्टबाधितवचनता सुगतादीनां तथा प्रागेव सर्वज्ञसिद्धौ लेशतो दर्शिता, ततो भगवानेव सर्वज्ञः, उक्तं च - "सर्वण्णुविहाणंमिवि दिट्ठिट्ठाबाहियाउ वयणाओ । सबण्णू होइ जिणो सेसा सवे असण्णू ॥ १ ॥ एतेन यदुक्तं- 'भवतु वा वर्द्धमानखामी सर्वज्ञस्तथापि तस्य सत्कोऽयमाचारादिक उपदेश इति कथं प्रतीयते ?' इति, तदपि दूरापास्तं, अन्यस्येत्थम्भूतदृष्टेष्टबाधितवचनप्रवृत्तेरसम्भवात् यदप्युक्तं - ' भवत्वेषोऽपि निश्चयो यथाऽयमाचारादिक उपदेशो वर्द्धमानखामिन इति, तथापि तस्यो - पदेशस्यायमर्थो नान्य इति न शक्यं प्रत्येतु' मित्यादि, तदप्ययुक्तं, भगवान् हि वीतरागस्ततो न विप्रतारयति, विप्रतारणाहेतुरागादिदोषगणासम्भवात्, तथा सर्वज्ञत्वेन विपरीतं सम्यग् वाऽर्थमवबुध्यमानं शिष्यं जानाति ततो
१ सर्वज्ञविधानेऽपि दृष्टेष्टबाधितात् वचनात् । सर्वज्ञो भवति जिनः शेषाः सर्वे असर्वज्ञाः ॥ १ ॥
onal
For Personal & Private Use Only
अज्ञानवाद्यधिकारः
२०
॥२२६॥ २४
www.jainelibrary.org