________________
अज्ञानवाघधिकारः
किरणाग्रतः स्थातुम् ? ॥१॥" तत इत्थम्भूतो ज्ञानी विवेकपूतात्मा परहितकरणकरसिको वादमपि परेषामुपकारा
माधत्ते, न यथाकथञ्चित् , तमपि च वादं वादिनरपतिपरीक्षकेषु निपुणबुद्धिषु मध्यस्थेषु सत्सु विधत्ते, नान्येषु, है तथा तीर्थकरगणधरैरनुज्ञानात् , उक्तं च-"वादोऽवि वाइनरवइपरिच्छगजणेसु निउणबुद्धीसुं। मज्झत्थेसु यू विहिणा
उस्सग्गेणं अणुण्णाओ॥१॥" तत एवं स्थिते कथं नु नाम चित्तकालुष्यभावो? यद्वशात् तीव्रतीव्रतरकर्मबन्धयोगतो दीर्घदीर्घतरसंसारप्रवृत्तिः सम्भवेत्, केवलं वादिनरपतिपरीक्षकाणामज्ञानापगमतः सम्यग्ज्ञानोन्मीलनं जायते, द तथा च महदुपकारि ज्ञानमिति तदेव श्रेयः। यत्पुनरुच्यते-'तीव्राध्यवसायनिष्पन्नः कर्मबन्धो दारुणविपाको भ
वती'ति तदभ्युपगम्यते एव, न च तीब्रोऽध्यवसायो ज्ञाननिबन्धनः, अज्ञानिनोऽपि तस्य दर्शनात्, केवलज्ञाने |सति यदि कथञ्चित्कर्मदोषतोऽकार्येऽपि प्रवृत्तिरुपजायते तथापि ज्ञानवशतः प्रतिक्षणं संवेगमावतो न तीव्रः परिणामो भवति, तथाहि-यथा कश्चित्पुरुषो राजादिदुष्टनियोगतो विषमिश्रमन्नं जानानोऽपि भयभीतमानसो भुते तथा सम्यग्ज्ञान्यपि कथञ्चित्कर्मदोषतोऽकार्यमाचरन्नपि संसारदुःखभयभीतमानसः समाचरति, न निःशङ्क, संसा
रभयभीतता च संवेग उच्यते, ततः संवेगवशान तीव्रः परिणामो भवति, उक्तं च-"जाणतो सविसण्णं पवत्तसामाणोऽवि बीहए जह उ । न उ इयरो तह नाणी पवत्तमाणोऽवि संविग्गो ॥१॥जं संवेगपहाणो अचंतसुहो य
। १ वादोऽपि वादिनरपतिपरीक्षकजनेषु निपुणबुद्धिषु । मध्यस्थेषु च विधिनोत्सर्गेण अनुज्ञातः॥१॥ २ जानानः सविषमन्नं प्रवर्तमानोऽपि विमेति यथा तु । 8न वितरः तथा ज्ञानी प्रवर्त्तमानोऽपि संविनः ॥ १॥ यत् संवेगप्रधानोऽयन्तशुभश्च भवति परिणामः । पापनिवृत्तिश्च परा नेदमज्ञानिनामुभयम् ॥ २॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org