________________
सवमेव तओ ॥१॥" यदपि च यदृच्छावादिनः प्रलपन्ति-'न खलु प्रतिनियतो वस्तूनां कार्यकारणभाव' इत्यादि, अज्ञानवाबतदपि च कार्याकार्यादिविवेचनपटीयःशेमुषीविकलतासूचकमवगन्तव्यं, कार्यकारणभावस्य प्रतिनियततया सम्भ
धिकार वात् , तथाहि-यः शालूकादुपजायते शालूकः स सदैव शालूकादेव, न गोमयादपि, योऽपि च गोमयादुपजायते शा-2 लूकः (ग्रन्थायं ७०००) सोऽपि सदैव गोमयादेव न शालूकादपि, न चानयोरेकरूपता, शक्तिवर्णादिवैचित्र्यतः परस्परं जात्यन्तरत्वात् , योऽपि च वढेरुपजायते वह्निः सोऽपि सदैव वह्वेरेव नारणिकाष्ठादपि, योऽपि चारणिकाष्ठादुपजायते सोऽपि सर्वदाऽरणिकाष्ठादेव न वढेरपि, यदपि चोक्तं-बीजादपि जायते कदली'सादि, तत्रापि परस्परं विभिन्नत्वात् एतदेवोत्तरम्, अपिच-या कन्दादुपजायते कदली साऽपि परमार्थतो बीजादेव वेदितव्या, परम्परया बीजस्यैव कारणत्वात् , एवं वटादयोऽपि शाखैकदेशादपजायमानाः परमार्थतो बीजादवगन्तव्याः, तथाहि-शाखातः शाखा प्रभवति, न च शाखा शाखाहेतुका लोके व्यवहियते, वटबीजस्यैव सकलशाखादिसमुदायरूपवटहेतुत्वेन प्र-11 सिद्धत्वात् , एवं शाखैकदेशादपि जायमानो वटः परमार्थतो मूलवटप्रशाखारूप इति मूलवटबीजहेतुक एव सोऽपि १० |वेदितव्यः, तस्मान्न क्वचिदपि कारणकार्यव्यभिचारः, निपुणविचारप्रवीणेन च प्रतिपत्रा भवितव्यं, ततो न कश्चिद्दोषः, एवं च यदुच्यते-'न खल्वन्यथा वस्तुसद्भावं पश्यन्तोऽन्यथाऽऽत्मानं प्रेक्षावन्तः परिक्लेशयन्ती'ति, तद्वाङ्मात्रमिति स्थितं । येऽपि चाज्ञानवादिनो 'न ज्ञानं श्रेयः तस्मिन सति परस्परं विवादयोगतश्चित्तकालुष्यादिभावतो दीर्घ
Jalt Education International
For Personal & Private Use Only
www.jainelibrary.org