________________
श्रीमलयनिरीया नन्दीवृत्तिः
॥२२३॥
र्त्तते इत्यनवस्था, अथान्यत इति पक्षः, तदप्ययुक्तं, नियतिव्यतिरेकेणान्यस्य हेतुत्वेनानभ्युपगमादिति यत्किञ्चिदेतत्. किंच - अनेकरूपमिति पक्षाभ्युपगमे भवतः प्रतिपन्थि विकल्पयुगलमुपढौकते - तद्धि मूर्त्त वा स्यादमूर्त्त वा?, यदि मूर्त्त तर्हि नामान्तरेण कम्मैव प्रतिपन्नं यस्मात्तदपि कर्म्म पुद्गलरूपत्वात् मूर्त्तमनेकं चास्माकमभिप्रेतं भवताऽपि च नियतिरूपं तत्त्वान्तरमनेकं मूर्त्त चाभ्युपगम्यते इत्यावयोरविप्रतिपत्तिः, अथामूर्त्तमित्यभ्युपगमस्तर्हि न तत्सुखदुःखनिबन्धनम्, अमूर्त्तत्वात्, न खल्वाकाशममूर्त्तमनुग्रहायोपघाताय वा जायते, पुद्गलानामेवानुग्रहोपघातविधान समर्थ - त्वात्, "जमणुग्गहोवघाया जीवाणं पुग्गलेहिंतो" इति वचनात्, अथ मन्येथाः - दृष्टमाकाशमपि देशभेदेन सुख| दुःखनिबन्धनं, तथाहि - मरुस्थलीप्रभृतिषु देशेषु दुःखं शेषेषु तु सुखमिति, तदप्यसत्, तत्रापि तदाकाशस्थिताना| मेव पुद्गलानामनुग्रहोपघातकारित्वात्, तथाहि - मरुस्थलीप्रायासु भूमिषु जलविकलतया न तथाविधा धान्यसम्पत् वालुकाकुलतया चाध्वनि प्राणिनां गमनागमनविधावतिशायी पदे २ खेदो निदाघे च खरकिरण तीव्र करनिकरसम्पकैतो भूयान् सन्तापो जलाभ्यवहरणमपि स्वल्पीयो महाप्रयत्तसम्पाद्यं चेति महत्तत्र दुःखं, शेषेषु तद्विपर्ययात्सुख| मिति तत्रापि पुद्गलानामेवानुग्रहोपघातकारित्वं नाकाशस्येति, अथाभावरूपमिति पक्षस्तदप्ययुक्तं, अभावस्य तुच्छरू| पतया सकलशक्त्ययोगतः कार्यकारित्वायोगात्, नहि कटककुण्डलाद्यभावतः कटककुण्डलाद्युपजायते, तथादर्शनाभावात्, अन्यथा तत एव कटककुण्डलाद्युत्पत्तेर्विश्वस्यादरिद्रताप्रसङ्गः, नन्विह घटाभावो मृत्पिण्ड एवं तस्माच्चोप
Jain Education International
For Personal & Private Use Only
अज्ञानवाद्यधिकारः
२०
॥२२
२५
www.jainelibrary.org