________________
करणखभावा, द्वितीयादिषु क्षणेषु तत्करणस्वभावताऽभ्युपगमे नित्यत्वक्षितिप्रसङ्गात् , ततःप्रथमेऽपि क्षणे सर्वसहका- आजनवाद्यशरिणां सम्भवात् सकलकार्यकरणप्रसङ्गः, अपिच-सहकारिषु सत्सु भवति कार्यं तदभावे च न भवति ततः सहकारिणामे- धिकार:
वान्वयव्यतिरेकदर्शनात् कारणता परिकल्पनीया, न नियतेः, तत्र व्यतिरेकासम्भवात् , उक्तं च-"हेतुताऽन्वयपूर्वेण,5 व्यतिरेकेण सिध्यति । नित्यस्याव्यतिरेकस्य, कतो हेतत्वसम्भवः॥१॥" अथैतहोषभयादनित्यमिति पक्षाश्रयणं तर्हि तस्य प्रतिक्षणमन्यान्यरूपतया भवनं, ततो बहुत्वभावादेकरूपमिति प्रतिज्ञाव्याघातप्रसङ्गः, न च क्षणक्षयित्वे कार्यकारणभाव इति प्रागेवोपपादितम् । अन्यच्च-यदि नियतिरेकरूपा ततस्तन्निबन्धननिखिलकार्याणामेकरूपताप्रसङ्गः, न हि कारणभेदमन्तरेण कार्यस्य भेदो भवितुमर्हति, तस्य निर्हेतुकत्वप्रसक्तेः, अथानेकरूपमिति पक्षो, ननु साऽने-13 करूपता न तदन्यनानारूपविशेषणमन्तरेणोपपद्यते. न खलु ऊपरेतरादिधराभेदमन्तरेण विहायसः पततामम्भसामनेकरूपता भवति, 'विशेषणं विना यस्मान्न तुल्यानां विशिष्टते ति वचनप्रामाण्यात्, ततोऽवश्यं तदन्यानि नानारूपाणि विशेषणानि नियतेर्भेदकान्यभ्युपगन्तव्यानि, तेषां च नानारूपाणां विशेषणानां भावः किं तत एव नियतेभ न्यतः, यदि नियतेस्तस्याः खत एकरूपत्वात्कथं तन्निबन्धनानां विशेषणानां नानारूपता?, अथ विचित्रकार्यान्यथाऽनुपपत्त्या सा विचित्ररूपाऽभ्युपगम्यते, ननु सा विचित्ररूपता विशेषणबाहुल्यसम्पर्कमन्तरेण न घटामश्चति, ततस्तत्रापि विशेषणबाहुल्यमभ्युपगन्तव्यं, तेषामपि विशेषणानां भावः किं तत एव नियतेर्भवेदुतान्यत इत्यादि तदेवाव-10
dan Ed
e
rational
For Personal & Private Use Only
www.jainelibrary.org