________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥२२२॥
पत्त्याधानेनात्मनो व्यामोहे निवर्त्यमानेऽवश्यं पूर्वरूपत्यागोऽपररूपस्य चाव्यामूढता लक्षणस्योत्पत्तिरित्य द्वैतं प्रतिज्ञाहानिः परस्मै च प्रतिपादयन्नियमतः परमभ्युपगच्छेत् परं चाभ्युपगच्छन् तस्मै चाद्वैतरूपं तत्त्वं निवेदयन् पिता मे कुमारब्रह्मचारीत्यादि वदन्निव कथं नोन्मत्तः १, खपराभ्युपगमेनाद्वैतवचसो वाधनादिति यत्किञ्चिदेतत् ॥ यदपि च | नियतिवादिन उक्तवन्तो-नियतिर्नाम तत्त्वान्तरमस्तीति, तदपि ताड्यमानाऽतिजीर्णघट इव विचारताडनमसहमानं शतशो विशरारुभावमाभजते, तथाहि - तन्नियतिरूपं नाम तत्त्वान्तरं भावरूपं वा स्यादभावरूपं वा ?, यदि भावरूपं तर्हि किमेकरूपमनेकरूपं वा १, यद्येकरूपं ततस्तदपि नित्यमनित्यं वा ?, यदि नित्यं कथं भावानां हेतुः १, नित्यस्य कारणत्वायोगात्, तथाहि - नियमाकालमेकरूपमुपवर्ण्यते, अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया नित्यत्वस्य व्यावर्णनात्, ततो यदि तेन रूपेण कार्याणि जनयति तर्हि सर्वदा तेन रूपेण जनयेत्, विशेषाभावात् न च सर्वदा तेन रूपेण जनयति, क्वचित्कदाचित्तस्य भावस्य दर्शनात्, अविच — यानि द्वितीयादिषु क्षणेषु कर्त्तव्यानि कार्याणि तान्यपि प्रथमसमय एवोत्पादयेत्, तत्कारणस्वभावस्य तदानीमपि विद्यमानत्वात् मा वा द्वितीयादिष्वपि क्षणेपु, विशेषाभावात्, विशेषे वा बलादनित्यत्वं, 'अतादवस्थ्यमनित्यतां ब्रूम' इति वचनप्राण्यात्, अथाविशिष्टमपि नित्यं तं तं सहकारिणमपेक्ष्य कार्यं विधत्ते, सहकारिणश्च प्रतिनियत देशकालभाविनः, ततः सहकारिभावाभावाभ्यां कार्यस्य क्रम इति, तदप्यसमीचीनं, यतः सहकारिणोऽपि नियतिसम्पाद्याः, नियतिश्च प्रथमक्षणेऽपि त
Jain Education International
For Personal & Private Use Only
अज्ञानवाद्यधिकारः
२०
॥२२२॥
२५
www.jainelibrary.org