________________
तत्सर्वं परमार्थतोऽसत् प्राप्नोति, ततश्चैव स्थिते यदेतदुच्यते-'प्रमाणतोऽधिगम्ब संसारनैर्गुण्यं तद्विमुखया प्रज्ञया | 18 तदुच्छेदाय प्रवृत्ति'रित्यादि तदेतदाकाशकुसुमसौरभवर्णनोपमानमवसेयं, अद्वैतरूपे हि तत्वे कुतो नरकादिभवभ्रम-1 धिकारः
णरूपः संसारो ? यन्नैर्गुण्यमवगम्य तदुच्छेदाय प्रवृत्तिरुपपद्यते, यदप्युच्यते-'पुरुषमात्रमेवाद्वैतं तत्त्वं, यत्तु संसारनैर्गुण्यं 3 भावभेददर्शनं च तत्सर्वदा सर्वेषामविणामप्रतिपत्तावपि चित्रे निम्नोन्नतभेददर्शनमिव प्रान्तमवसेयमिति, तदप्यचारु, एतद्विषयवास्तवप्रमाणाभावात् , तथाहि-नाद्वताभ्युपगमे किञ्चिदद्वैतग्राहकं ततः पृथग्भूतं प्रमाणमस्ति, द्वैतत्वप्रसक्तेः, ५ न च प्रमाणमन्तरेण निष्प्रतिपक्षा तत्त्वव्यवस्था भवति, मा प्रापत्सर्वस्य सर्वेष्टार्थसिद्धिप्रसङ्गः, तथा भ्रान्तिरपि प्र-18 माणभूताद्वैताद् भिन्नाऽभ्युपगन्तव्या, अन्यथा प्रमाणभूतमद्वैतमप्रमाणमेव भवेत् , तदव्यतिरेकात् , तत्खरूपवत् , तथा च कुतस्तत्त्वव्ययस्था ?, भिन्नायां च भ्रान्तावभ्युपगम्यमानायां द्वैतं प्रसक्तमित्यद्वैतहानिः, अपिच-यदीदं स्तम्भा
भाकुम्भाम्भोरुहादिभावमेददर्शनं भ्रान्तमुच्यते तर्हि नियमात्तदपि क्वचित्सत्यमवगन्तव्यं, अभ्रान्तदर्शनमन्तरेण भ्रा-II ६न्तेरयोगात् , न खलु येन पूर्वमासीविषो न दृष्टस्तस्स रज्ज्यामासीविषभ्रान्तिरुपजायते, यदुक्तं-"मादृष्टपूर्वसर्पस्य,18|१० दारज्यां सर्पमतिः क्वचित् । ततः पूर्वानुसारित्वाद्धान्तिरभ्रान्तिपूर्षिका ॥१॥” तत एवमप्यव्याहतो भेदः, अन्यच्च-14]
'पुरुषाद्वैतरूपं तत्त्वमवश्यं परस्मै निवेदनीयं, नात्मने, आत्मनो व्यामोहाभावात् , विमोहश्चेदद्वैतप्रतिपत्तिरेव न है। भवेत्, अथोच्येत-यत एव व्यामोहोडत एव तन्निवृत्त्यर्थमात्मनोऽद्वैतप्रतिपत्तिरास्थेया, तदयुक्तम् , एवं सत्सद्वैतप्रति
Jain Education inter
n al
For Personal & Private Use Only
www.janelibrary.org