________________
ईश्वरस्तु सर्वजगत्कतृत्वेन सर्वज्ञत्वेन च नोपलब्धः, ततस्तत्र तथाखमावत्वकल्पनाऽवश्यं पर्यनुयोगमाश्रयते, यदि अज्ञानवाद्य६ पुनरदृष्टेऽपि तथाखभावता कल्पना पर्यनुयोगानाश्रयाऽभ्युपगम्येत तर्हि सर्वोऽपि वादी तं तं पक्षमाश्रयन् परेण वि- धिकारः है क्षोभितस्तत्र तत्र तथाखभावताकल्पनेन परं निरुत्तरीकृत्य लब्धजयपताक एव भवेत् , उक्तं च-“यत्किञ्चिदात्मा|ऽभिमतं विधाय, निरुत्तरस्तत्र कृतः परेण । वस्तुखभावैरिति वाच्यमित्थं, तदोत्तरं स्थाद्विजयी समस्तः ॥१॥"
किंच-सर्वं यदि जगदीश्वरकृतं मन्यते तर्हि सर्वाण्यपि शास्त्राणि सकलदर्शनगतानि तेन प्रवर्त्तितानीति प्रासं, तानि 8/५ दूच शास्त्राणि परस्परविरुद्धार्थानि, ततोऽवश्यं कानिचित् सत्यानि कानिचिदसत्यानि, ततः सत्यासत्योपदेशदानात्
कथमसी प्रमाणम् ?, उक्तं च-"शास्त्रान्तराणि सर्वाणि, यदीश्वरविकल्पतः। सत्यान्योपदेशश्च (स्य)प्रमाणं दानतः कथम् ? ॥ १॥" अथ न सकलानि शास्त्राणीश्वरेण कारितानि किन्तु सत्यान्येव ततो न कश्चिद्दोपावकाशः, तर्हि
शास्त्रान्तरवदेव नेश्वरेणान्यदपि व्यधायीति हता तव पक्षसिद्धिरिति । अन्यच्च-यादृग्भूतं संस्थानादि बुद्धिमत्कारणहै। पूर्वकत्वेनोपलब्धं तादृग्भूतमेवान्यत्रापि बुद्धिमन्तमात्मनो हेतुमनुमापयति, यथा जीर्णदेवकूलकूपादिगतं, न शेष,
न हि सन्ध्याऽभ्रमरागवल्मीकादिगतसंस्थानाद्यात्मनो बुद्धिमन्तं कर्तारमनुमापयति, तथाप्रतीतेरभावात , तद्गतस्य सं-12 ४ स्थानादेर्बुद्धिमत्कारणत्वेन निश्चयाभावात् , तथा भूभूधरादिगतमपि संस्थानादिकं न बुद्धिमत्कारणपूर्वकत्वेन निश्चित-15 मिति कथं तद्वशाद्बुद्धिमतः कर्तुरनुमानम् ?,अथ मन्येथाः तदपि संस्थानादि तागभूतमेव संस्थानादिशब्दवाच्यत्वात्,
dan
mational
For Personal & Private Use Only
Twww.jainelibrary.org