SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ तनत्वात् , खभावत एव चेत्प्रवर्त्तन्ते तर्हि सदैव तेषां प्रवर्त्तनं भवेत्, न च भवति, तस्मादवश्यं स्थित्वा खित्वा अज्ञानवायप्रवर्त्तने केनचित्प्रेक्षावता प्रवर्तकेन भवितव्यं, सकलस्यापि च जगतः स्थित्वा २ फलं साधयतः प्रवर्तक ईश्वर एवो- | धिकार: पपद्यते, नान्य इतीश्वरसिद्धिः, तथाऽपरमनुमानं-यत्पारिमण्डल्यादिलक्षणसन्निवेशविशेषभाक् तचेतनावत्कृतं, यथा है घटादि, पारिमण्डल्यादिलक्षणसन्निवेशविशेषभाक् च भूभूधरादिकमिति, तदेतदयुक्तं, सिद्धसाधनेन पक्षस्य प्रसिद्ध सम्बन्धत्वात् , तथाहि-सकलमपीदं विश्ववैचित्र्यं वयं कर्मनिबन्धनमिच्छामो, यतोऽमी वैताढ्यहिमवदादयः पर्वता 81५ भरतैरावतविदेहान्तरद्वीपादीनि क्षेत्राणि तथा तथा प्राणिनां सुखदुःखादिहेतुतया यत्परिणमन्ते तत्र तथापरिणमने तत्तन्निवासिनामेव तेषां जन्तूनां कर्म कारणमवसेयं, नान्यत् , तथा च दृश्यते एव पुण्यवति राज्यमनुशासति भूपती . तत्कर्मप्रभावतः सुभिक्षादयः प्रवर्त्तमानाः, कर्म च जीवाश्रितं, जीवाश्च बुद्धिमन्तश्चेतनावत्त्वात् , ततो बुद्धिमत्कारणाधिष्ठितत्वे चेतनावत्कृतत्वे च साध्यमाने सिद्धसाधनं, अथ बुद्धिमान् चेतनावान् वा विशिष्ट एवेश्वरः कश्चित्साध्यते । तेन न सिद्धसाधनं, तर्हि दृष्टान्तस्य साध्यविकलता, वास्यादौ च घटादौ चेश्वरस्याधिष्ठायकत्वेन कारणत्वेन वा भ्यमानत्वाद्, वाद्धेकिकुम्भकारादीनामेव तत्रान्वयतो व्यतिरेकतो वा व्याप्रियमाणानां निश्ची-12 यमानत्वात् , अथ वार्द्धक्यादयोऽपि ईश्वरप्रेरिता एव तत्र २ कर्मणि प्रवर्तन्ते न खतः ततो न दृष्टान्तस्य साध्यविकलता, । नन्वेवं तर्हि ईश्वरोऽप्यन्येनेश्वरेण प्रेरितः स्वकर्मणि प्रवर्त्तते,न खतो,विशेषाभावात् ,सोऽप्यन्येनेश्वरेण प्रेरित इति विकाल ३ Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy