________________
DEPOS
श्रीमलय- ततो यदि शेषा अपि सुगतादयः सर्वज्ञा अभविष्यन् तर्हि तेषामपि देवाः पूजामकरिष्यन् न च कृतवन्तस्तस्मान्न ते अज्ञानवायगिरीया | PM सर्वज्ञाः, तदेतत्वदर्शनानुरागतरलितमनस्कतासूचकं, यतो वर्द्धमानखामिनो दिवः समागत्य देवास्तथा पूजां कृतवन्त |
धिकार: नन्दीवृत्तिः
इसेतदपि कथमवसीयते?, भगवतश्चिरातीतत्वेनेदानीं तद्भावग्राहकप्रमाणाभावात् , सम्प्रदायादवसीयते इति चेत् ॥२१६॥ ननु सोऽपि सम्प्रदायो न धूर्तपुरुषप्रवर्त्तितः किन्तु सत्यपुरुषप्रवर्तित एवेति कथमवगन्तव्यं ?, तद्वाहकप्रमाणाभावात् , दिन चाप्रमाणकं वयं प्रतिपत्तुं क्षमाः, मा प्रापदप्रेक्षावत्ताप्रसङ्गः, अन्यच्च-मायाविनः खयमसर्वज्ञा अपि जगति स्वस्थ है।
सर्वज्ञभावं प्रचिकटयिषवस्तथाविधेन्द्रजालवशादर्शयन्ति देवानितस्ततः सञ्चरतः खस्य च पूजादिकं कुर्वतः, ततो देवा-12 गमदर्शनादपि कथं तस्य सर्वज्ञत्वनिश्चयः, तथा चाह भावक एव स्तुतिकारः समन्तभद्रः-'देवागमनभोयान-18 चामरादिविभूतयः । मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥ १॥" भवतु वा वर्द्धमानखामी सर्वज्ञः त-18/२०
थापि तत्सत्कोऽयमाचारादिक उपदेशो न पुनः केनापि धूर्तेन स्वयं विरचय्य प्रवर्तित इति कथमवसेयं ?, अतीसन्द्रियत्वेनैतद्विषये प्रमाणाभावात् , अथवा भवत्वेषोऽपि निश्चयो यथाऽयमाचारादिक उपदेशो वर्द्धमानखामिन इति,
तथापि तस्योपदेशस्यायमर्थो नान्य इति न शक्यः प्रत्येतुं, नानार्था हि शब्दा लोके प्रवर्तन्ते, तथादर्शनात् , त-16 ॥२१६॥ तोऽन्यथाऽप्यर्थसम्भावनायां कथं विवक्षितार्थनियमनिश्चयः?, अथ मन्येथास्तदात्वे तत एव सर्वज्ञात् साक्षाच्छ्व-11 णतो गौतमादेरर्थनियमनिश्चयोऽभूत् तत आचार्यपरम्परयेदानीमपि भवतीति, तदप्ययुक्तं, यतो नाम गातमादिरपि
ISSA SASA
Jain Education
For Personal & Private Use Only
www.jainelibrary.org