________________
छद्मस्थः, छद्मस्थस्य च परचेतोवृत्तिरप्रत्यक्षा, तस्या अतीन्द्रियत्वेनैतद्विषये चक्षुरादीन्द्रियप्रत्यक्ष प्रवृत्तेरभावात्, अप्रत्यक्षायां च सर्वज्ञस्य विवक्षायां कथमिदं ज्ञायते - एप सर्वज्ञस्याभिप्रायोऽनेन चाभिप्रायेण शब्दः प्रयुक्तो नाभिप्रायान्तरेण १, तत एवं सम्यक्परिज्ञानाभावात् यामेव वर्णावलीमुक्तवान् भगवान् तामेव केवल पृष्ठतो लग्नो गौतमादिर भिभाषते, न पुनः परमार्थतस्तस्योपदेशस्यार्थमवबुध्यते, यथाऽऽर्यदेशोत्पन्नो तस्यानुवादकोऽपरिज्ञातशब्दार्थो म्लेच्छः, उक्तं च - "मिलक्खू अमिलक्खुस्स, जहा वृत्ताणुभासए । न हेउं से वियाणाइ, भासियं तऽणुभास ॥ १ ॥ एवमन्नाणिया नाणं, वयंता भासियं सयं । निच्छयत्थं न याणन्ति, मिलक्खुव अबोहिए ॥ २ ॥” तदेवं दीर्घतरसंसा - |रकारणत्वात् सम्यग्निश्चयाभावाच्च न ज्ञानं श्रेयः, किन्त्वज्ञानमेवेति स्थितं, ते चाज्ञानिकाः सप्तषष्टिसङ्ख्या अमुनोपायेन प्रतिपत्तव्याः, इह जीवाजीवादीन् नव पदार्थान् कचित्पट्टिकादौ व्यवस्थाप्य पर्यन्ते उत्पत्तिः स्थाप्यते, तेषां च | जीवाजीवादीनां नवानां पदार्थानां प्रत्येकमधः सप्त सत्त्वादयो न्यस्यन्ते, तद्यथा— सत्त्वमसत्त्वं सदसत्यमवाच्यत्वं सदवाच्यत्वमसदवाच्यत्वं सदसदवाच्यत्वं चेति । तत्र सत्त्वं खरूपेण विद्यमानत्वं, असत्त्वं पररूपेणाविद्यमानत्वं सदसत्त्वं | खरूपपररूपाभ्यां विद्यमानाविद्यमानत्वं, तत्र यद्यपि सर्व वस्तु खरूपपररूपाभ्यां सर्वदैव स्वभावत एव सदसत् त
१ म्लेच्छोऽम्लेच्छस्य यथा उक्तमेवानुभाषते । न हेतुं तस्य विजानाति, भाषितं खनुभाषते ॥१॥ एवमज्ञानिका ज्ञानं वदन्तः भाषितं स्वकम् (भाषन्ते वयं ) । निश्वयार्थं न जानन्ति म्लेच्छा इव अबोधिकाः ॥ २ ॥
Jain Edternational
For Personal & Private Use Only
अज्ञानवाद्यधिकारः
www.jainelibrary.org