SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ विंशतित्रिंशतिर्विकल्पा लभ्यन्ते, ततो विंशतिर्नवगुणिताः शतमशीत्युत्तरं क्रियावादिनां भवति॥ तथा न कस्यचिन-- क्रियावाबतिक्षणमनवस्थितस्य पदार्थस्य क्रिया सम्भवति उत्पत्त्यनन्तरमेव विनाशादित्येवं ये वदन्ति तेऽक्रियावादिनः, तथा धिकार: |चाहुः एके-"क्षणिकाः सर्वसंस्कारा, अस्थिराणां कुतः क्रिया ?। भूतियैषां क्रिया सैव, कारकं सैव चोच्यते ॥१॥"| एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिसङ्ख्या द्रष्टव्याः,पुण्यापुण्यवर्जितशेषजीवाजीवादिपदार्थ-12 सप्तकन्यासस्तथैव च जीवादिसप्तकस्याधः प्रत्येकं खपरविकल्पोपादानं, असत्त्वादात्मनो नित्यानित्यविकल्पो न स्तः, कालादीनां च पञ्चानामधस्तात्षष्ठी यदृच्छा न्यस्यते. इह यहच्छावादिनः सर्वेऽप्यक्रियावादिनः एव, न केचिदपि क्रियावादिनः, ततः प्राक् यदृच्छा नोपन्यस्ता, तत एवं विकल्पाभिलापः-नास्ति जीवः स्वतः कालत इति इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छापर्यन्तैः, सर्वे मिलिताः षड़ विकल्पाः, अमीषां च विकल्पानामथेः प्राग्वद्भा|वनीयः, नवरं यदृच्छात इति यदृच्छावादिनां मते. अथ के ते यहच्छावादिनः?, उच्यते, इह ये भावानां सन्तानापेिक्षया न प्रतिनियतं कार्यकारणभावमिच्छन्ति किन्त यदृच्छया ते यहच्छावादिनः, तथा च ते एवमाहु:-"न है खलु प्रतिनियतो वस्तूनां कार्यकारणभावः, तथाप्रमाणेनाग्रहणात् , तथाहि-शालूकादपि जायते शालूको गोम-12 यादपि जायते शालकः वढेरपि वह्निरुपजायते अरणिकाष्ठादपि धूमादपि जायते धूमोऽमीन्धनसम्पादपि जायते | कन्दादपि जायते कदली बीजादपि वटादयो बीजादपजायन्ते शाखैकदेशादपि, ततो न प्रतिनियतः क्वचिदपि ARREARS dain E t ernational For Personal & Private Use Only w w.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy