SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीबृत्तिः ॥२१४॥ रूपेण प्रादुर्भावमश्नुवते, नान्यथा, तथाहि-यद्यदा यतो भवति तत्तदा तत एव नियतेनैव रूपेण भवदुपलभ्यते, अ-15 क्रियावायन्यथा कार्यकारणभावव्यवस्था प्रतिनियतरूपव्यवस्था च न भवेत् , नियामकाभावात् , तत एव कार्यनयत्यतः प्रती-|| धिकार यमानामिमां नियतिं को नाम प्रमाणकुशलो बाधितुं क्षमते?, मा प्रापदन्यत्रापि प्रमाणपथव्याघातप्रसङ्गः, तथा चोक्तम्-"नियतेनैव रूपेण, सर्वे भावा भवन्ति यत् । ततो नियतिजा ह्येते, तत्स्वरूपानुवेधतः॥१॥ यद्यदैव यतो यावत्तत्तदैव ततस्तथा। नियतं जायते न्यायात् (नान्यात् ),क एनां बाधितुंक्षमः? ॥२॥" पञ्चमो विकल्पः स्वभाववादिनां, ते हि खभाववादिन एवमाहुः-इह सर्वे भावाः खभाववशादुपजायन्ते, तथाहि-मृदः कुम्भो भवति न पटादि, तन्तुभ्योऽपि पट उपजायते न कुम्भादि, एतच प्रतिनियतभवनं न तथास्वभावतामन्तरेण घटाकोटीसण्टङ्कमाटीकते, तस्मात् सकलमिदं खभावकृतमवसेयं, अपिच-आस्तामन्यत् कार्यजातं इह मुद्पक्तिरपि न खभावमन्तरेण भवि६|तुमर्हति, तथाहि-स्थालीन्धनकालादिसामग्रीसम्भवेऽपि न काटुकमुद्गानां पक्तिरुपलभ्यते, तस्माद्यद्यद्भावे भवति । यदभावे च न भवति तत्तदन्वयव्यतिरेकानुविधायि तत्कृतमिति खभावकता मुद्गपक्तिरप्येष्टव्या, ततः सकलमेवेदं | वस्तुजातं खभावहेतुकमवसेयमिति । तत एवं खत इति पदेन लब्धाः पक्ष विकल्पाः , एवं परत इत्यनेनापि पच ल-18॥२१॥ भ्यन्ते, परत इति-परेभ्योव्यावृत्तेन रूपेण विद्यते खल्वयमात्मेत्यर्थः, एवं नित्यत्वापरित्यागेन दश विकल्पा लब्धाः, एवमनित्यपदेनापि दश, सर्वे मिलिता विंशतिः, एते च जीवपदार्थेन लब्धाः, एवमजीवादिष्वष्टसु पदार्थेषु प्रत्येक Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy