________________
सेसा वा पडिवत्तीओ सुत्तपडिबद्धा संखेज्ज"त्ति, 'से ण'मित्यादि, स आचारो 'ण' मिति वाक्यालङ्कारे अङ्गार्थतया - अङ्गार्थत्वेन, अर्थग्रहणं परलोकचिन्तायां सूत्रादर्थस्य गरीयस्त्वख्यापनार्थ, अथवा सूत्रार्थोभयरूप आचार इति ख्यापनार्थ, प्रथममङ्गम्, एकारान्तता सर्वत्र मागधभाषालक्षणानुसरणाद्वेदितव्या स्थापनामधिकृत्य प्रथममङ्गमित्यर्थः, तथा द्वौ श्रुतस्कन्धौ - अध्ययन समुदायरूपौ, पञ्चविंशतिरध्ययनानि, तद्यथा - "सत्यपरिन्ना ( १ ) लोगविजओ ( २ ) सीओसणिज ( ३ ) संमत्तं (४) । आवंति (५) धुय (६) विमोहो (७) महापरिनो (८) वहाण सुयं ( ९ ) ॥ १ ॥ एतानि नवाध्ययनानि प्रथमश्रुतस्कन्धे, “पिंडेसण (१) सेजि (२) रिया (३) भासजाया (४) य वत्थ (५) पाएसा (६) । उग्गहपडिमा (७) सत्तसत्तिक्कया (१४) य भावण (१५) विमुत्ती (१६) ॥ १ ॥' अत्र 'सेजिरिय'त्ति शय्याऽध्ययनमीर्याऽध्ययनं च 'वत्थपाएस' त्ति वस्त्रैषणाध्ययनं पात्रैपणाध्ययनं च, अमूनि षोडशाध्ययनानि द्वितीयश्रुतस्कन्धे, एवमेतानि | निशीथवर्जानि पञ्चविंशतिरध्ययनानि भवन्ति, तथा पञ्चाशीतिरुद्देशन कालाः, कथमिति चेत् ?, उच्यते, इहाङ्गस्य श्रुतस्कन्धस्याध्ययनस्योद्देश कस्य चैक एवोदेशनकालः, एवं शस्त्रपरिज्ञायां सप्तोद्देशनकालाः लोकविजये पद् शीतोष्णीयाध्ययने चत्वारः सम्यक्त्वाध्ययने चत्वारः लोकसाराध्ययने षट् धुताध्ययने पञ्च विमोहाध्ययनेऽष्टौ महापरिज्ञायां सप्त उपधानश्रुते चत्वारः पिण्डैषणायामेकादश शय्यैषणाध्ययने त्रयः ईर्याध्ययने त्रयः भाषाध्ययने द्वौ वस्त्रैपणाध्ययने द्वौ पात्रैषणाध्ययने द्वौ अवग्रहप्रतिमाध्ययने द्वौ सप्त सप्तकिकाऽध्ययनेषु भावनायामेको विमुक्तावेकश्च,
Jain Education International
For Personal & Private Use Only
आचाराङ्गाधिकारः सू. ४६
१०
१३
www.jainelibrary.org