SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥२०१ ॥ पजाएहि उ केवलेण तुलं न होइ न परेहिं । सयपरपजाएहिं तु तं तुलं केवलेणेव ॥१॥" यथा चाकारादिकं सर्वद्रव्यपर्यायपरिमाणं तथा मत्यादीन्यपि ज्ञानानि द्रष्टव्यानि, न्यायस्य समानत्वात् इह यद्यपि सर्व ज्ञानमविशेषेणाक्षरमुच्यते सर्वद्रव्यपययपरिमाणं च भवति तथापि श्रुताधिकारादिहाक्षर श्रुतज्ञानमवसेयं श्रुतज्ञानं च मतिज्ञानाविनाभूतं ततो मतिज्ञानमपि, तदेवं यतः श्रुतज्ञानमकारादिकं चोत्कर्षतः सर्वद्रव्यपर्यायपरिमाणं तच्च सर्वोत्कृष्टश्रुतकेवलिनो द्वादशाङ्गविदः सङ्गच्छते, न शेषस्य, ततोऽनादिभावः श्रुतस्य जन्तूनां जघन्यो मध्यमो वा द्रष्टव्यो, न तुत्कृष्ट इति स्थितम् । अपर आह- नन्वनादिभाव एव श्रुतस्य कथमुपपद्यते ?, यावता यदा प्रबलश्रुतज्ञानावरणस्त्यानर्द्धिनिद्रारूपदर्शनावरणादयः सम्भवन्ति तदा सम्भाव्यते साकल्येन श्रुतस्यावरणं, यथाऽवध्यादिज्ञानस्य, ततोऽवध्यादिज्ञानमिवादिमदेव युज्यते श्रुतमपि नानादिमदिति कथं तृतीय चतुर्थभङ्गसम्भवः ?, तत आह- 'सङ्घजीवाणंपि' सर्वजीवानामपि णमिति वाक्यालङ्कारे अक्षरस्य श्रुतज्ञानस्य [श्रुतसंलुलित केवलस्येति तु भाष्यकृत् ] श्रुतज्ञानं च मतिज्ञानावि नाभावि ततो मतिज्ञानस्यावि अनन्तभागो 'नित्योद्घाटितः' सर्वदेवानावृतः सोऽपि च- अनन्ततमो भागोऽनेकविधः, तत्र सर्वजघन्यश्चैतन्यमात्रं, तत्पुनः सर्वोत्कृष्टश्रुतावरणस्त्यानर्द्धिनिद्रो दयभावेऽपि नात्रियते, तथाजीवखाभाव्यात्, तथा चाह - 'जइ पुण' इत्यादि, यदि पुनः सोऽपि अनन्ततमो भाग आत्रियते तेन तर्हि जीवोऽजीवत्वं प्राप्नुयात्, जीवो हि नाम चैतन्यलक्षततो यदि प्रबलश्रुतावरणस्त्यानर्द्धिनिद्रोदयभावे चैतन्यमात्रमध्यात्रियेत तर्हि जीवस्य स्वस्वभावपरित्यागादजीवतैव १ श्रुतं खपर्यायैः अनन्तभागे इत्यध्याहार्थं । Jain Education Themational For Personal & Private Use Only अक्षरानन्त भागस्य नित्योद्घाटता १५ २० ॥२०१॥ २४ Jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy