________________
से एवं जाणइ" अस्थायमर्थः - य एकं वस्तुपलभते सर्व पर्यायैः स नियमात्सर्वमुपलभते, सर्वोपलब्धिमन्तरेण विवक्षितस्यैकस्य खपरपर्यायभेदभिन्नतया सर्वात्मनाऽवगन्तुमशक्यत्वात्, यश्च सर्वे सर्वात्मना साक्षादुपलभते स एकं खपरपर्यायभेदभिन्नं जानाति, तथाऽन्यत्राप्युक्तम् - "एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टा, एको भावः सर्वथा तेन दृष्टः ॥ १ ॥” तदेवमकारादिकमपि वर्णजातं केवलज्ञानमिव सर्वद्रव्यपर्यायपरिमाणमिति न कश्चिद्विरोधः । अपिच - केवलज्ञानमपि खपरपर्याय भेदभिन्नं, यतस्तदात्मखभावरूपं न घटादिवस्तुखभावात्मकं ततो ये घटादिखपर्यायास्ते तस्य परपर्यायाः ये तु परिच्छेदकत्वस्वभावास्ते, खपर्याया परपर्यायाः अपि च पूर्वोतयुक्तेस्तस्य सम्बन्धिन इति खपरपर्यायभेदभिन्नं, तथा चाह भाष्यकृत् - " वत्थुसहावं पइ तंपि सपरपज्जायभेदभिन्नं तु । तं जेण जीयभावो भिन्ना य तओ घडाईया ॥ १ ॥” ततः पर्यायपरिमाणचिन्तायां परमार्थतो न कश्चिदकारादिश्रुत| केवलज्ञानयोर्विशेषः, अयं तु विशेषः - केवलज्ञानं खपर्यायैरपि सर्वद्रव्यपर्यायपरिमाणतुल्यमकारादिकं तु खपरपर्यायैरेव, तथाहि - अकारस्य स्वपर्यायाः सर्वद्रव्यपर्यायाणामनन्ततमभागकल्पाः, परपर्यायास्तु खपर्यायरूपानन्ततमभागोनाः सर्वद्रव्य पर्यायाः, ततः खपरपर्यायैरेव सर्वद्रव्यपर्यायपरिमाणमकारादिकं भवति, आह च भाष्यकृत् — “स
१ वस्तुस्वभावं प्रति तदपि खपरपर्यायभेदभिन्नं तु । तत् येन जीवभावः भिन्नाश्च ततो घटादिकाः ॥ १ ॥ खपरपययैस्तु तत्तुल्यं केवलेनैव ॥ १ ॥
Jain Education International
For Personal & Private Use Only
२ खपर्यायैस्तु केवलेन तुल्यं न भवति न परैः ।
खपर
पर्यायाः
3
www.jainelibrary.org