________________
Jain 1
क्त्वावासौ ततः प्रथमपाठतो वा सादि पुनर्मिथ्यात्वप्राप्तौ सति वा सम्यक्त्वे प्रमादभावतो महाग्लानत्वभावतो वा सुरलोकगमनसम्भवतो वा विस्मृतिमुपागते केवलज्ञानोत्पत्तिभावतो वा सर्वथा विप्रनष्टे सपर्यवसितं बहून् पुरुषान् कालत्रयवर्त्तिनः पुनः प्रतीत्या नाद्यपर्यवसितं सन्तानेन प्रवृत्तत्वात् कालवत्, तथा क्षेत्रतो 'ण'मिति वाक्यालङ्कारे पञ्च भरतानि पञ्चैवतानि प्रतीत्य सादिसपर्यवसानं कथं ?, उच्यते, तेषु क्षेत्रेष्ववसर्पिण्यां सुपमदुष्पमापर्यवसाने उत्सर्पिण्यां तु दुष्पमसुषमाभारम्भे तीर्थकरधर्म्मसङ्घानां प्रथमतयोत्पत्तेः सादि, एकान्तदुष्पमादौ च काले तदभावात् सपर्यवसितं तथा महा विदेहान् प्रतीत्यानाद्यपर्यवसितं तत्र प्रवाहापेक्षया तीर्थकारादीनामन्यवच्छेदात्, तथा कालतो 'ण' मिति वाक्यालङ्कारे, अवसर्पिणीमुत्सर्पिणीं च प्रतीत्य सादिसपर्यवसितं तथाहि — अवसर्पिण्यां तिसृष्वेव समासु सुषमदुष्षमा दुष्पमसुषमादुष्पमारूपासूत्सर्पिण्यां तु द्वयोः समयोः दुष्पमसुषमा सुषमदुष्पमारूपयोभवति, न परतः, ततः सादिसपर्यवसितं अत्र चोत्सर्पिण्यव सर्पिणी खरूपज्ञापनार्थे कालचक्रं विंशतिसागरोपमको| टाकोटीप्रमाणं विनेयजनानुग्रहार्थे यथा मूलवृत्तिकृता दर्शितं तथा वयमपि दर्शयामः - "चंत्तारि सागरोवमकोडिकोडीउ संतईए उ । एगंतसुस्समा खलु जिणेहिँ सहिँ निद्दिट्ठा ॥ १ ॥ तीए पुरिसाणमाऊ तिन्नि य पलियाई तह पमाणं च । तिन्नेव गाउपाई आइऍ भांति समयन्नू ॥ २ ॥ उवभोगपरीभोगा जम्मंतरसुकयवीयजाया उ ।
१ चतस्रः सागरोपमकोटीकोव्यः संसत्या तु । एकान्तसुषमा खल जिनैः सर्वैर्निर्दिष्टा ॥ १ ॥ तस्यां पुरुषाणामायुस्त्रीणि च पल्योपमानि तथा प्रमाणं च । श्रीण्येव गब्यूतानि आदौ भणन्ति समयाः ॥ २ ॥ उपभोगपरीभोगा जन्मान्तरसुकृत बीजजातास्तु ।
nternational
For Personal & Private Use Only
सादिसपर्थ| वसिताद्यधिकारः सू. ४३
१०
१२
www.jainelibrary.org