________________
Jain B
पश्चानुपूर्व्या परं-भिन्नेषु दशसु पूर्वेषु भजना - विकल्पना, कदाचित् सम्यक् श्रुतं कदाचिन्मिथ्या श्रुतमित्यर्थः, इयमत्र भावना- सम्यग्दृष्टेः प्रशमादिगुणगणोपेतस्य सम्यक्श्रुतं यथावस्थितार्थतया तस्य सम्यक् परिणमनात्, मिथ्यादृटेस्तु मिध्याश्रुतं विपरीतार्थतया तस्य परिणमनात्, 'सेत्त' मित्यादि, तदेतत्सम्यक् श्रुतम् ।
से किं तं मिच्छासु ?, २ जं इमं अण्णाणिएहिं मिच्छादिट्टिएहिं सच्छंदबुद्धिमइविगप्पिअं, तं जहा - भारहं रामायणं भीमासुरुक्खं कोडिलयं सगडभदिआओ खोड ( घोडग ) मुहं कप्पासिअं नागसुहुमं कणगसत्तरी वइसेसिअं बुद्धवयणं तेरासिअं काबिलिअं लोगाययं सहितंतं माढरं पुराणं वागरणं भागवं पायंजली पुस्सदेवयं लेहं गणिअं - सउणरुअं नाडयाई, अहवा बावन्तरि कलाओ चत्तारि अ वेआ संगोवंगा, एआई मिच्छदिट्टिस्स मिच्छत्तपरिग्गहिआई मिच्छा, एयाई चैव सम्मदिट्ठिस्स सम्मत्तपरिग्गहिआई सम्मसुअं, अहवा मिच्छदिसिवियाई चेव सम्मसुअं, कम्हा ?, सम्मत्त हे उत्तणओ, जम्हा ते मिच्छदिट्टिआ तेहिं चेव समएहिं चोइआ समाणा केइ सपक्खदिट्टीओ चयंति से तं मिच्छाअं ( सू०४२) ‘से किं त’मित्यादि, अथ किं तन्मिथ्याश्रुतं ?, आचार्य आह - मिश्याश्रुतं यदिदमज्ञानिकैः, तत्र यथाऽल्पधना
International
For Personal & Private Use Only
मिथ्याश्रुताधिकारः
सू. ४२
१०
१२
www.jainelibrary.org