SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ सभ्यक श्रीमलयगिरीया | नन्दीवृत्तिः ॥१९३॥ श्रुताधिकारः पिटकं, अथवा गणिशब्दः परिच्छेदवचनोऽ(प्य)स्ति, तथा चोक्तम्-"आयारंमि अहीए जं नाओ होइ समणधम्मो टू उ । तम्हा आयारधरो भन्नइ पढमं गणिट्ठाणं ॥ १॥” ततश्च गणीनां पिटकं गणिपिटकं परिच्छेदसमूह इत्यर्थः, तद्यथा-'आयारो' इत्यादि पाठसिद्धं यावत् दृष्टिवादः, अनङ्गप्रविष्टमप्यावश्यकादि तत्त्वतोऽहत्प्रणीतत्वात्परमार्थतो द्वादशाङ्गातिरिक्तार्थाभावाच द्वादशाङ्गग्रहणेन गृहीतं द्रष्टव्यं, इदं च द्वादशाङ्गादि सर्वमेव द्रव्यास्तिकनयमतापेक्षया | तदभिधेयपञ्चास्तिकायभाववन्नित्यं खाम्यसम्बन्धचिन्तायां च खरूपेण चिन्त्यमानं सम्यकश्रुतं स्वामिसम्बन्धचिन्तायां तु सम्यग्दृष्टेः सम्यक्श्रुतं मिथ्यादृष्टेर्मिथ्याश्रुतं, एतदेव श्रुतं परिमाणतो व्यक्तं दर्शयति इत्येतद् द्वादशाङ्गं गणिपि-1 टकं यश्चतुर्दशपूर्वी तस्य सकलमपि सामायिकादि बिन्दुसारपर्यवसानं नियमात् सम्यक्श्रुतं, ततोऽधोमुखपरिहान्या नियमतः सर्वं सम्यक्श्रुतं तावद्वक्तव्यं यावदभिन्नदशपूर्विणः-सम्पूर्णदशपूर्वधरस्य, सम्पूर्णदशपूर्वधरत्वादिकं हि नि-18 यमतः सम्यग्दृष्टेरेव, न मिथ्यादृष्टेः, तथास्वाभाव्यात् , तथाहि-यथा अभव्यो ग्रन्थिदेशमुपागतोऽपि तथाखभावत्वात् न ग्रन्थिभेदमाधातुमलम् , एवं मिथ्यादृष्टिरपि श्रुतमवगाहमानःप्रकर्षतोऽपि तावदवगाहते यावत्किञ्चिन्यूनानि दश पूर्वाणि भवन्ति, परिपूर्णानि तु तानि नावगाटुं शक्नोति, तथाखभावत्वादिति, 'तेण परं भन्नइ भयणा' अत्र 'तेणे'ति 'व्यत्ययोऽप्यासामिति प्राकृतलक्षणवशात्पञ्चम्यर्थे तृतीया, ततोऽयमर्थः-ततः सम्पूर्णदशपूर्वधरत्वात् । १आचारेऽधीते यज्ज्ञातो भवति श्रमणधर्मलु । तस्मादाचारधरो भण्यते प्रथमं गणि स्थानम् ॥१॥ ॥१९३॥ 28 Jain Educatio i onal For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy