________________
96SASSASSASAR
र सुगन्धिपुष्पप्रकरप्रक्षेपादिना द्रव्यस्तवेन, तत्र सुगता अपि पर्यायास्तिकनयमतानुसारिभित्रैलोक्यनिरीक्षितमहितपू-12
सम्यक् जिता इष्यन्ते, तथा चाह स्वयम्भूः-“देवागमनभोयान चामरादिविभूतयः । मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो || श्रुताधि महान् ॥१॥” इति, ततस्तद्वयवच्छेदार्थ विशेषणान्तरमाह-'अतीतप्रत्युत्पन्नानागतज्ञैः' न चातीतानागतज्ञाः सुगताः
कार: सम्भवन्ति, तेषामेकान्तक्षणिकत्वाभ्युपगमेन सर्वथाऽतीतानागतयोरसत्त्वाद् , असतां च ग्रहणासम्भवादित्यत्र बहु वक्तव्यं तच्च प्रायः प्रागेवोक्तमन्यत्र(च) धर्मसङ्ग्रहणीटीकादाविति नोच्यते, इह व्यवहारनयमतानुसारिभिः कैश्चिदृष- ५ योऽप्यतीतप्रत्युत्पन्नानागतज्ञा इष्यन्ते, तथा च तद्वन्थः-"ऋषयः संयतात्मानः, फलमूलानिलाशनाः । तपसैव प्रपश्यन्ति, त्रैलोक्यं सचराचरम् ॥ १॥ अतीतानागतान् भावान् , वर्तमानांश्च भारत! । ज्ञानालोकेन पश्यन्ति, त्यक्तसङ्गा जितेन्द्रियाः ॥२॥” इत्यादि, ततस्तद्वयवच्छेदार्थमाह-सर्वज्ञः सर्वदर्शिभिः' ते. तु ऋषयः सर्वज्ञाः सर्वदर्शिनश्च न भवन्ति, ततस्तेषां व्युदासः । तदेवं द्रव्यास्तिकपर्यायास्तिकनयमतव्यवच्छेदफलतया विशेषणसाफल्यमुक्तं, विचिनयमताभिज्ञेन तु अन्यथापि विशेषणसाफल्यं वाच्यं, न कश्चिद्विरोधः, प्रणीतम्-अर्थकथनद्वारेण प्ररूपितं, किं त- १० दित्याह-'द्वादशाङ्गं' श्रुतरूपस्य परमपुरुषस्याङ्गानीवाङ्गानि द्वादशाङ्गानि-आचाराङ्गादीनि यस्मिन् तत् द्वादशाङ्गं गणिपिडगं'ति गणो-गच्छो गुणगणो वाऽस्यास्तीति गणी-आचार्यस्तस्य पिटकमिव पिटकं, सर्वखमित्यर्थः, गणि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org