________________
इदानीन्तनपुरुषवदिति, तदप्ययुक्तम् , अत्रापि हेतोर्व्यभिचारात्, तथाहि-भारतादिष्विदानीन्तनपुरुषाणामशक्तावपि कस्यचित्पुरुषस्य व्यासादेः शक्तिः श्रूयते, एवं वेदविषयेऽपि सम्प्रति पुरुषाणां कर्तुमशक्तावपि कस्यचित्प्राक्तनस्य पुरुषविशेषस्य शक्तिर्भविष्यतीति । अपि च-यथाऽग्निसामान्यस्य ज्वालाप्रभवत्वमरणिनिर्मथनप्रभवत्वं च परस्परमबाध्यवा-3 धकत्वान्न विरुध्यते, को पत्र विरोधः अमिश्च स्यात् कदाचिदरणिनिर्मथनपूर्वकः कदाचिज्ज्वालान्तरपूर्वकश्च, ततो | यथाऽऽद्योऽपि पथिककृतोऽग्निः ज्वालान्तरपूर्वको नारणिनिर्मथनपूर्वकः, पथिकाग्नित्वाद्, आद्यानन्तराग्निवदित्ययं ५
हेतुर्व्यभिचारी, विपक्षे वृत्तिसम्भवात् , तथा वेदाध्ययनमपि विपक्षे वृत्तिसम्भवात् व्यभिचार्येव, तथाहि-वेदाध्ययने | | खयंकरणपूर्वकत्वमध्ययनान्तरपूर्वकत्वं च परस्परमबाध्यबाधकत्वादविरुद्धम् , ततश्च वेदाध्ययनमपि स्यात् किञ्चि-131 त्वयंकरणपूर्वकमपीति, यदा त्वेवं विशिष्यते-यस्तु तथाविधः स्वयं कृत्वाऽध्येतुमसमर्थः तस्य वेदाध्ययनमध्य-15 यनान्तरपूर्वकमिति, तदा न कश्चिदोषः, यथा यादृशोऽग्निालाप्रभवो दृष्टः तादृशः सर्वोऽपि ज्वालाप्रभव इति, अस्तु वा सर्व वेदाध्ययनमध्ययनान्तरपूर्वकं, तथाऽप्येवमनादिता सिद्धयेद् वेदस्य, नापौरुषेयत्वं, अथात एवानादि- १० तामात्रादपौरुषेयत्वसिद्धिरिष्यते तर्हि डिम्भकपांशुक्रीडादेरपि पुरुषव्यवहारस्यापौरुषेयतापत्तिः, तस्यापि पूर्वपूर्वदर्श-181 नप्रवृत्तित्वेनानादित्वात्, अपि च-स्युरपौरुषेया वेदा यदि पुरुषाणामादिः स्याद् वेदाध्ययनं चानादि, तदाप्याद्यपुरुषस्याध्ययनमध्ययनान्तरपूर्वकं न सिद्ध्यति, अध्यापयतुरभावात् , न च पुरुषस्य ताल्वादिकरणग्रामव्यापाराभा
LU
Jain Educ
a
tional
For Personal & Private Use Only
www.jainelibrary.org