SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥ १७ ॥ तदसत्, इतरेतराश्रयदोपप्रसङ्गात्, तथाहि प्रामाण्ये सिद्धे सति तदन्यथानुपपत्त्या करोतेः स्मरणे वर्त्तनं करोतेः स्मरणे वृत्तौ चापौरुषेयत्वासिद्धितः प्रामाण्यमित्येकासिद्धावन्यतरासिद्धिः, अनैकान्तिकं च कर्त्तुरस्मरणं, 'बटे वटे वैश्रवण' इत्यादिशब्दानां पौरुषेयाणामपि कर्त्तुरस्मृतेः, यत्नवान् तत्कर्त्तारमुपलभते एवेति चेत्, न अवश्यं तदुपलम्भसम्भवः, नियमाभावात्, किंच - अपौरुषेयत्वेनाभ्युपगतस्य वेदस्य कर्त्ता नैवास्ति कश्चित् पौरुषेयत्वेनाभ्युपगतस्य च वटे वटे वैश्रवण इत्यादेरस्तीति न प्रमाणात् कुतश्चिद्विनिश्चयः, किन्तु परोपदेशात् स च भवतो न प्रमाणं, परस्य रागादिपरीतत्वेन यथावद्वस्तुतत्त्वापरिज्ञानात् ततः कर्तृभावसन्देह इति सन्दिग्धासिद्धोऽप्ययं हेतुः, एतेन यदन्यदपि साधनमवादीद् वेदवादी - 'वेदाध्ययनं सर्व्वे गुर्व्वध्ययनपूर्वकं वेदाध्ययनत्वाद्, अधुनातनवेदाध्ययनवदिति, तदपि निरस्तमवसेयं, एवमपौरुषेयत्वसाधने सर्वस्याप्य पौरुषेयत्वप्रसक्तेः, तथाहि - कुमारसम्भवाध्ययनं सर्वे गुर्वध्ययनपूर्वकं, कुमारसम्भवाध्ययनत्वाद्, इदानीन्तनकुमारसम्भवाध्ययनवदिति कुमारसम्भवादीनामध्ययनानादितासिद्धेरपौरुषेयत्वं दुर्निवारं, न च तेषामपौरुषयत्वं, स्वयंकरण पूर्वकत्वेनापि तदध्ययनस्य भावाद्, एवं वेदाध्ययनमपि किञ्चित्स्वयंकरणपूर्वकमपि भविष्यतीति वेदाध्ययनत्वादिति व्यभिचारी हेतुः स्यादेतत्-वेदाध्ययनं स्वयंकरणपूर्वकं न भवति, वेदानां स्वयं कर्त्तुमशक्तेः, तथा चात्र प्रयोगः -पूर्वेषां वेदरचनायामशक्तिः, पुरुषत्वाद्, १ कारण अपौरुषेयत्वे यक्षः प्राप्तस्य व्याप्तत्वेन । Jain Education International For Personal & Private Use Only वचनस्या पौरुषेयत्व खंडनम्. १५. २० ॥ १७ ॥ २६ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy