________________
संझ्यसंजि
ला
श्रुतं
तव्यः, तस्याभिसन्धिपूर्वकमिष्टानिष्टप्रवृत्तिनिवृत्त्यसम्भवात् , या अपि चाहारादिसंज्ञाः पृथिव्यादीना वर्तन्ते ता अप्य- त्यन्तमव्यक्तरूपा इति तदपेक्षयापि न तेषां संज्ञित्वव्यपदेशः, उक्तं च भाष्यकृता-"जे पुण संचिंतेउं इटाणिटेसु विसयवत्थूसुं । वत्तंति नियत्तंति य सदेहपरिपालणाहेउं ॥१॥ पाएण संपइ चिय कालंमि न याइदीहकालण्णू । ते हेउवायसण्णी निचिट्ठा होंति अस्सण्णी ॥ २॥" अन्यत्रापि हेतूपदेशेन संज्ञित्वमाश्रियोक्तं-'कृमिकीटपतङ्गाद्याः समनस्काः जङ्गमाश्चतुर्भेदाः। अमनस्काः पञ्चविधाः पृथिवीकायादयो जीवाः॥१॥''सेत्त'मित्यादि, सोऽयं हेतूपदेशेन संज्ञी। 'से किं तमित्यादि, अथ कोऽयं दृष्टिवादोपदेशेन संजी?, दृष्टिः दर्शन-सम्यक्त्वादि वदनं वादः दृष्टीनां वादो दृष्टिवादस्तदुपदेशेन, तदपेक्षयेत्यर्थः, आचार्य आह-दृष्टिवादोपदेशेन संज्ञिश्रुतस्य क्षयोपशमेन संज्ञी लभ्यते, संज्ञानं संज्ञा-सम्यग्ज्ञानं तदस्यास्तीति[स] संजी-सम्यग्दृष्टिस्तस्य यच्छ्रुतं तत्संज्ञिश्रुतं, सम्यक्श्रुतमिति भावार्थः, तस्य क्षयोपशमेन-तदावारकस्य कर्मणः क्षयोपशमभावेन संज्ञी लभ्यते, किमुक्तं भवति?-सम्यगूयष्टिः क्षायोपक्षमिकज्ञानयुक्तो दृष्टिवादोपदेशेन संज्ञी भवति, स च यथाशक्ति रागादिनिग्रहपरो वेदितव्यः, स हि सम्यग्दृष्टिः सम्यग्ज्ञानी वा यो रागादीन् निगृह्णाति, अन्यथा हिताहितप्रवृत्तिनिवृत्त्यभावतः सम्यग्दृष्टित्वाद्ययोगात् , उक्तं च-"तज्ज्ञान
। १ ये पुनः संचिन्य इष्टानिष्टेषु विषयवस्तुषु । वर्तन्ते निवर्तन्ते च खदेहपरिपालनाहेतोः ॥१॥ प्रायेण सांप्रत एव काले न चातिदीर्घकालज्ञाः । ते हेतुबादसंक्षिनः निषेठा भवन्त्यसंज्ञिनः ॥३॥
dan Edd
a tona
For Personal & Private Use Only
HILww.jainelibrary.org