SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥१९०॥ जानाति, तथाहि-संज्ञिपञ्चेन्द्रियापेक्षया सम्मूछिमपञ्चेन्द्रियोऽस्फुटमर्थ जानाति, ततोऽप्यस्फुटं चतुरिन्द्रियः, त- व्यसन तोऽप्यस्फुटतरं त्रीन्द्रियः, ततोऽप्यस्फुटतमं द्वीन्द्रियः, ततोऽप्यस्फुटतममेकेन्द्रियः, तस्य प्रायो मनोद्रव्यासम्भवात् ,IT"श्रुत केवलमव्यक्तमेव किञ्चिदतीवाल्पतरं मनो द्रष्टव्यं,यद्वशादाहारादिसंज्ञा अव्यक्तरूपाः प्रादुष्पन्ति, 'सेत्त'मित्यादि, सोऽयं । सू. ४० कालिक्युपदेशेन संज्ञी। 'से किं त'मित्यादि, अथ कोऽयं हेतूपदेशेन संज्ञी?, हेतुः कारणं निमित्तमित्यनान्त उपदेशनमुपदेशः हेतोरुपदेशनं हेतूपदेशस्तेन, किमुक्तं भवति ?-कोऽयं संज्ञित्वनिवन्धनहेतुमुपलभ्य कालिक्युपदेशेना-2 संक्ष्यपि संज्ञीति व्यवह्रियते ?,आचार्य आह-हेतूपदेशेन संज्ञा यस्य प्राणिनोऽस्ति-विद्यतेऽभिसन्धारणम्-अव्यक्तेन | व्यक्तेन वा विज्ञानेनालोचनं तत्पूर्विका-तत्कारणिका 'करणशक्तिः' करणं क्रिया तस्यां शक्तिः-प्रवृत्तिः स प्राणी BI'ण'मिति वाक्यालङ्कारे हेतूपदेशेन संज्ञीति भण्यते, एतदुक्तं भवति-यो बुद्धिपूर्वकं खदेहपरिपालनार्थमिष्टेष्वाहारादिषु । वस्तुषु प्रवर्तते अनिष्टेभ्यश्च निवर्तते स हेतूपदेशेन संज्ञी, स च द्वीन्द्रियादिरपि वेदितव्यः, तथाहि-इष्टानिष्टविषय-18 प्रवृत्तिनिवृत्तिसञ्चिन्तनं न मनोव्यापारमन्तरेण सम्भवति, मनसा पर्यालोचनं संज्ञा. सा च द्वीन्द्रियादेरपि विद्यत, | ॥१९॥ तस्यापि प्रतिनियतेष्टानिष्टविषयप्रवृत्तिनिवृत्तिदर्शनात्, ततो द्वीन्द्रियादिरपि हेतूपदेशेन संज्ञी लभ्यते, नवरमस्य चि-| तनं प्रायो वर्तमानकालविषयं न भूतभविष्यद्विषयमिति न कालिक्युपदेशेन संज्ञी लभ्यते, यस्य पुनर्नास्त्यभिसन्धारणापूर्विका करणशक्तिः स प्राणी 'ण'मिति वाक्यालङ्कारे हेतुपदेशेनाप्यसंज्ञी लभ्यते. स च पृथिव्यादिरेकेन्द्रियो वेदि २४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy