________________
सू.४०
देशः-कथनमित्यर्थः दीर्घकालिक्या उपदेशः दीर्घकालिक्युपदेशस्तेन, आचार्य आह-कालिक्युपदेशेन संज्ञी स उच्यते है संज्ञासंज्ञियस्य प्राणिनोऽस्ति-विद्यते ईहा-सदर्थपर्यालोचनमपोहो-निश्चयो मार्गणा-अन्वयधर्मान्वेषणरूपा गवेषणा-व्यतिरे-IPI
श्रुतं कधर्मखरूपपर्यालोचनं चिन्ता-कथमिदं भूतं कथं चेदं सम्प्रति कर्त्तव्यं कथं चैतद्भविष्यतीति पर्यालोचनं, विमर्शनं 8 विमर्शः-इदमित्थमेव घटते इत्थं वा तद्भूतमित्थमेव वा तद्भावीति यथावस्थितवस्तुखरूपनिर्णयः, स प्राणी 'ण'मिति है। वाक्यालङ्कारे संज्ञीति लभ्यते, स च गर्भव्युत्क्रान्तिकपुरुषादिरोपपातिकश्च देवादिमनःपर्याप्सियुक्तो विज्ञेयः, तस्यैव ५ | त्रिकालविषयचिन्ताविमर्शादिसम्भवाद् , आह च भाष्यकृत्-"इह दीहकालिगी कालिगित्ति सन्ना जया सुदीहंपि। # संभरइ भूयमेस्सं चिंतेइ य किह णु काय? ॥ १॥ कालियसन्नित्ति तओ जस्स मई सो य तो मणोजोग्गे । खं-18
धेऽणते घेत्तुं मन्नइ तल्लद्धिसंपत्तो ॥ २॥" एप च प्रायः सर्वमप्यर्थं स्फुटरूपमुपलभते, तथाहि-यथा चक्षुष्मान प्रदीपादिप्रकाशेन स्फुटमर्थमुपलभते तथैषोऽपि मनोलब्धिसम्पन्नो मनोद्रव्यावष्टम्भसमुत्थविमर्शवशतः पूर्वापरानुस-11 न्धानेन यथावस्थितं स्फुटमर्थमुपलभते, यस्य पुनर्नास्ति ईहा अपोहो मार्गणा गवेषणा चिन्ता विमर्शः सोऽसंज्ञीति | लभ्यते, स च सम्मूछिमपञ्चेन्द्रियविकलेन्द्रियादिविज्ञेयः,स हि खल्पखल्पतरमनोलब्धिसम्पन्नत्वादस्फुटमस्फुटतरमथै
*
१६ दीर्घकालिकी कालिकीति संज्ञा यया सुवीर्यमपि । सरति भूतमेष्यं चिन्तयति च कथं नु कर्तव्यम् ॥१॥ कालिकसंज्ञीति सको यस्य मतिः स च ततो मनोयोग्यान् । स्कन्धाननन्तान् गृहीला मन्यते तजब्धिसंपन्नः॥१॥
For Personal & Private Use Only
Al
Jain Echternational
www.jainelibrary.org