________________
श्रीमलयगिरीया नन्दीवृत्तिः ॥१८६॥
न तावत्केवलानि, यतो वासकानि शब्दद्रव्याणि शब्दयोग्यानि च द्रव्याणि सकललोकव्यापीनि ततोऽवश्यं तद्वा
मतेविषयो
मेदाःकाल: सितानि शृणोति मिश्राणि वा, न केवलान्येवोत्सृष्टानि, तथा चाह-भासासमे'त्यादि, भाष्यत इति भाषा-वाक्
स्पृष्टतादि शब्दरूपतया उत्सृज्यमाना द्रव्यसन्ततिः सा च वण्णोत्मिका भेरीमाङ्कारादिरूपा वा द्रष्टव्या, तस्याः समाः श्रेणयः, श्रेणयो नाम क्षेत्रप्रदेशपतयोऽभिधीयन्ते, ताश्च सर्वस्यैव भाषमाणस्य षट्सु दिक्षु विद्यन्ते यासूत्सृष्टा सती भापा 8 प्रथमसमय एव लोकान्तमनुधावति, भाषासमश्रेणयः, समश्रेणिग्रहणं विश्रेणिव्यवच्छेदार्थ, भाषासमश्रेणीः इतोगतः प्राप्तो भाषासमश्रेणीतः, भाषासमश्रेणिव्यवस्थित इत्यर्थः, यं शब्दं पुरुषादिसम्बन्धिनं भेर्यादिसम्बन्धिनं वा शृणोति यत्तदोर्नित्याभिसम्बन्धात्तं मिश्रं शृणोति, उत्सृष्टशब्दद्रव्यभावितापान्तरालस्थद्रव्यमिश्रंशृणोतीति भावार्थः।।। वीसेढी'त्यादि, अत्रेत इति वर्तते, ततोऽयमर्थः-विश्रेणिं पुनरितः-प्राप्तो, विश्रेणिव्यवस्थितः पुनरित्यर्थः, अथवा ||२० विश्रेणिस्थितो विश्रेणिरित्युच्यते, शब्दं शृणोति नियमात्पराघाते सति, नान्यथा, किमुक्तं भवति ?-उत्सृष्टशब्दद्रव्य-18 शब्दा (शब्दद्रव्या) भिघातेन यानि वासितानि शब्दद्रव्याणि तान्येव केवलानि शृणोति, न कदाचिदपि उत्सृष्टानि, कुत इति चेद्, उच्यते, तेषामनुश्रेणिगमनात्प्रतिघाताभावाच । सम्प्रति विनेयजनसुखप्रतिपत्तये मतिज्ञानस्य पर्यायश-181
॥१८६॥ दानभिधित्सुराह-ईहे'त्यादि, एते ईहादयः शब्दाः सर्वेऽपि परमार्थतो मतिवाचकाः पर्यायशब्दाः, परं विनेयजनबुद्धिप्रकाशनाय किञ्चिद्भेदाद् भेदोऽमीषां प्रदर्श्यते-ईहनमीहा-सदर्थपर्यालोचनं, अपोहनमपोहः निश्चय इत्यर्थः, विमर्शनं २५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org