________________
'से जहानामए' इत्यादि, स यथानामकः कोऽपि पुरुषोऽव्यक्तं स्वप्नं प्रतिसंवेदयेत्, अव्यक्तं नाम सकलविशेषविकलमनि|र्देश्यमितियावत् स्वप्नमिति प्रज्ञापकः सूत्रकारो वदति, स तु प्रतिपत्ता स्वप्नादिव्यक्तिविकलं किञ्चिदनिर्देश्यमेव तदानीं गृह्णाति तथाऽनेन प्रतिपत्रा 'सुविणोत्ति उग्गहिए'त्ति खनमिति अवगृहीतं, अत्रापि स्वप्न इति प्रज्ञापको वदति, स तु प्रतिपत्ता अशेषविशेषवियुक्तमेवावगृहीतवान्, तथा चाह-न पुनरेवं जानाति - क एष खप्न इति ?, स्वप्न इत्यपि तमर्थ न जानातीति भावः, तत इहां प्रविशतीत्यादि प्राग्वत्, एवं स्वप्नमधिकृत्य नोइन्द्रियस्यार्थावग्रहादयः प्रतिपादिताः । अनेन चोल्लेखेनान्यत्रापि विषये वेदितव्याः, तदेवं मलकदृष्टान्तेन व्यञ्जनावग्रहप्ररूपणां कुर्वता प्रसङ्गतोऽष्टाविंशतिसङ्ख्या अपि मतिज्ञानस्य भेदाः सप्रपञ्चमुक्ताः, सम्प्रति मल्लकदृष्टान्तमुपसंहरति- 'सेत्तं मल्ल गदिट्ठेतेणं' एवं मल्लकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा । एते चावग्रहादयोऽष्टाविंशतिभेदाः प्रत्येकं बह्वादिभिः सेतरैः सर्वसङ्ख्यया द्वादशसङ्ख्ये मेंदेर्भिद्यमाना यदा विवक्ष्यन्ते तदा पत्रिंशदधिकं भेदानां शतत्रयं भवति, तत्र बह्वादयः शब्दमधिकृत्य भाव्यन्ते - शङ्खपटहादिनानाशब्दसमूहं पृथगेकैकं यदाऽवगृह्णाति तथा वह्ववग्रहः, यदा त्वेकमेव कञ्चिच्छन्दमवगृहाति तदाऽबह्नवग्रहः, तथा शङ्खपटहादिनानाशब्दसमूहमध्ये एकैकं शब्दमनेकैः पर्यायः स्निग्धगाम्भीर्यादिभिर्विशिष्टं यथावस्थितं यदाऽवगृह्णाति तदा स बहुविधावग्रहः, यदा त्वेकमनेकं वा शब्दमेकपर्यायविशिष्टमवगृह्णाति तदा सोऽबहुविधावग्रहः, यदा तु अचि| रेण जानाति तदा स क्षिप्रावग्रहः, यदा तु चिरेण तदाऽक्षिप्रावग्रहः, तमेव शब्दं स्वरूपेण यदा जानाति न लिङ्गप
Jain Educnternational
For Personal & Private Use Only
प्रतिबोधकदृष्टान्तो.
मल्लकदृष्टान्तश्च
सू. ३६
५
१०
१३
W www.jainelibrary.org