SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Jain 1 विनष्टः, एवं प्रक्षिप्यमाणेषु २ भविष्यति स उदक विन्दुर्यस्तन्मल्लकं 'रावेहिइ' इति देश्योऽयं शब्दः, आर्द्रतां नेष्यति, शेषं सुगमं 'यावदेव 'मित्यादि, एवमेव उदकविन्दुभिरिव निरन्तरं प्रक्षिप्यमाणैः प्रक्षिप्यमाणैरनन्तैः शब्दरूपता परिणतैः पुलैर्यदा तद्वयञ्जनं पूरितं भवति तदा हुङ्कारं मुञ्चति तदा तान्पुद्गलान निर्द्दिश्यरूपतया परिच्छिनत्तीति भावार्थः । | अत्र व्यञ्जनशब्देनोपकरणेन्द्रियं शब्दादिपरिणतं वा द्रव्यं तयोः सम्बन्धो वा गृह्यते, तेन न कश्चिद्विरोधः, आह चभाष्यकृत् -" तोएण मलगंपिव वंजणमापूरियंति जं भणियं । तं दवर्मिंदियं वा तस्संबंधो व न विरोहो ॥ १ ॥ तत्र यदा व्यञ्जनं उपकरणेन्द्रियमधिक्रियते तदा पूरितमिति कोऽर्थः ? - परिपूर्ण भृतं व्याप्तमित्यर्थः, यदा व्यञ्जनं द्रव्यमभिगृह्यते तदा पूरितमिति - प्रभूतीकृतं खप्रमाणमानीतं खव्यक्तौ समर्थीकृतमित्यर्थः यदा तु व्यञ्जनं द्वयोरपि सम्बन्धो गृह्यते तदा पूरितमिति किमुक्तं भवति ? - तावत् सम्बन्धोऽभूत् यावति सति ते शब्दादिपुद्गला ग्रहणमागच्छन्ति, आह चूर्णिकृत् -" यदा पुग्गलदवा वंजणं तया पूरियंति - पभूया ते पुग्गलदवा जाया - खं प्रमाणमानीताः सविसयपडिवोहसमत्था जाया" "इत्यादि, जया उवगरादियं वंजणं तया पूरियंति कहं ?, उच्यते, जाहे तेहिं पोग्गलेहिं तं दबिंदियं आवृतं भरियं वापितं तथा पूरियंति भण्णइ, जया उभयसंबंधो वंजणं तथा पूरियंति कहं ?, उच्यते, दर्घिदियस्स पोग्गला अंगीभावमागता, पोग्गल्ला दबिंदिये अभिषिक्ता इत्यर्थः, तदा पूरियंति भन्नइ” इति, एवं च यदा पूरितं भवति व्यञ्जनं तदा हुं इति करोति - अर्थावग्रहरूपेण ज्ञानेन तमर्थ गृह्णाति, किं च ?, नामजात्यादिक CA international For Personal & Private Use Only प्रतिबोधकदृष्टान्तो मल्लकदृष्टान्तश्च सू. ३६ ५. १३ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy