________________
तिविधस्य, कथमष्टाविंशतिविधतेति, उच्यते, चतुर्की व्यञ्जनावग्रहः पोढा अर्थावग्रहः षोढा ईहा षडियोऽपायः षोढा प्रतिबोधकधारणा इत्यष्टाविंशतिविधता, एवमष्टाविंशतिविधस्याभिनिवोधिकज्ञानस्य सम्बन्धी यो व्यञ्जनावग्रहः तस्य स्पष्टतर-18
दृष्टान्तो
मल्लकखरूपप्रतिज्ञापनाय प्ररूपणां करिष्यामि। कथं ? इत्याह-प्रतिबोधकदृष्टान्तेन मल्लकदृष्टान्तेन च, तत्र प्रतिवोधयतीति
दृष्टान्तश्च प्रतिबोधकः-सुप्तस्योत्थापकः स एव दृष्टान्तः प्रतिबोधकदृष्टान्तस्तेन, मलकं-शरावं तदेव दृष्टान्तो मल्लकदृष्टान्तस्तेन सू. ३६
च, अथ केयं प्रतिबोधकदृष्टान्तेन?, व्यञ्जनावग्रहस्य प्ररूपणेति शेषः, आचार्य आह-प्रतिबोधकदृष्टान्तेनेयं व्यञ्जनाव-20५ है ग्रहप्ररूपणा, स यथानामको-यथासम्भवनामधेयकः कोऽपि पुरुषः, अत्र सर्वत्राप्येकारो मागधिकभाषालक्षणानु-16 |सरणात् , तच प्रागेवानेकश उक्तं, कञ्चिदनिर्दिष्टनामानं यथासम्भवनामकं पुरुष सुप्तं सन्तं प्रतिबोधयेत् , कथमिसाह–'अमुक अमुक' इति, अत्र एवमुक्ते स 'चोदको' ज्ञानावरणकर्मोदयतः कथितमपि सूत्रार्थमनवगच्छन् प्रश्नं चोदयतीति चोदकः, यथावस्थितं सूत्रार्थ प्रज्ञापयतीति प्रज्ञापको-गुरुः.तं 'एवं' वक्ष्यमाणेन प्रकारेणावादीत् ,भूतकालनिर्देशोऽनादिमानागम इति ख्यापनार्थो, वदनप्रकारमेव दर्शयति-किमेकसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति ?ग्राह्यतामुपगच्छन्ति, किं वा द्विसमयप्रविष्टाः? इत्यादि सुगम, एवं वदन्तं चोदकं प्रज्ञापकः (एवं-वक्ष्यमाणेन प्रकारेण) 'अवादीत्' उक्तवान्-'नो एकसमयप्रविष्टा' इत्यादि, प्रकटार्थ यावन्नो सङ्ख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति, नवरमयं प्रतिषेधः स्फुटप्रतिभासरूपार्थावग्रहलक्षणविज्ञानग्राह्यतामधिकृत्य वेदितव्यो, यावता पुनः प्रथमसम
Jain E
YELmational
For Personal & Private Use Only
www.jainelibrary.org