SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Jain B अथ कतिविधोऽयमर्थावग्रहः ?, सूरिराह - अर्थावग्रहः षड्विधः प्रज्ञप्तः, तद्यथा-'श्रोत्रेन्द्रियार्थावग्रहः' इत्यादि, श्रोत्रेन्द्रि यार्थावग्रहः, (श्रोत्रेन्द्रियेण व्यञ्जनावग्रहोत्तरकालमेकसामयिक मनिर्देश्य सामान्यरूपार्थावग्रहणं श्रोत्रेन्द्रियार्थावग्रहः, एवं प्राणजिह्वास्पर्शनेन्द्रियार्थावग्रहेष्वपि वाच्यं, चक्षुर्मनसोस्तु व्यञ्जनावग्रहो न भवति, ततस्तयोः प्रथममेव स्वरूपद्रव्यगुणक्रियाविकल्पनातीतमनिर्देश्यं सामान्य मात्र रूपार्थावग्रहणमर्थावग्रहोऽवसेयः । तत्र 'नोईदियअत्थावग्गहो' त्ति नोइन्द्रियं मनः, तच्च द्विधा- द्रव्यरूपं भावरूपं च तत्र मनःपर्याप्सिनामकर्मोदयतो यत् मनःप्रायोग्यवर्गणादलिकमादाय | मनस्त्वेन परिणमितं तद्रव्यरूपं मनः, तथा चाह चूर्णिणकृत् - "मणपज्जत्तिनामकम्मोदयओ तज्जोग्गे मणोदवे घेत्तुं मणत्तेण परिणामिया दवा दवमणो भण्णइ ।” तथा द्रव्यमनोऽवष्टम्भेन जीवस्य यो मननपरिणामः स भावमनः, तथा चाह चूर्णिकार एव - "जीवो पुण मणणपरिणामकिरियापन्नो भावमनो, किं भणियं होइ ? - मणदवालंवणो जीवस्स मणणवावारो भावमणो भण्णइ" तत्रेह भावमनसा प्रयोजनं तद्ब्रहणे ह्यवश्यं द्रव्यमनसोऽपि ग्रहणं भवति, द्रव्यमनोऽन्तरेण भावमनसोऽसम्भवात् भावमनो विनापि च द्रव्यमनो भवति, यथा भवस्थकेवलिनः, तत उच्यते - भावमनसेह प्रयोजनं, तत्र नोइन्द्रियेण - भाव मनसाऽर्थावग्रहो द्रव्येन्द्रियव्यापार निरपेक्षो घटाद्यर्थखरूपपरिभावनाभिमुखः प्रथम| मेकसामयिको रूपाद्यर्थाकारादिविशेषचिन्ता विकलोऽ निर्देश्य सामान्यमात्र चिन्तात्मको बोधो नोइन्द्रियार्थावग्रहः ॥ तस्स णं इमे एगट्ठआ नाणाघोसा नानावंजणा पंच नामधिज्जा भवंति, तंजहा - ओगे पहणया AInternational For Personal & Private Use Only अर्थावग्रहस्पोडावं सू. ३० ५ १३ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy