SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥१७३॥ " भवितव्यं, तत्र रूपरसस्पर्शगन्धानां पृथिव्यादिमहाभूतचतुष्टयमाश्रयः शब्दस्य त्वाकाशमिति, तदयुक्तम्, एवं सति पृथिव्यादीनामप्याकाशगुणत्वप्रसक्तेः तेषामप्याकाशाश्रितत्वात् न खल्वाकाशमन्तरेण पृथि - व्यादीनामप्यन्यदाश्रयः, अगुणत्वात्पृथिव्यादीनामाकाशगुणत्वमनुपपन्नमिति चेत्, न, आकाशाश्रितत्वेन भवन्नीत्या बलादपि तद्गुणत्वप्रसक्तेः, अथ नाश्रयणमात्रं तद्गुणत्वनिबन्धनं किन्तु समवायः, स चास्ति शब्दस्याकाशे न तु पृथिव्यादीनामिति, ननु कोऽयं समवायो नाम ?, एकत्र लोलीभावेनावस्थानं यथा पृथिव्यादिरूपाद्यो - रिति चेत्, न तर्हि शब्दस्याकाशगुणत्वमाकाशेन सहैकत्र लोलीभावेन तस्याप्रतिपत्तेः, अथाऽऽकाशे उपलभ्यमानत्वात्तद्गुणता शब्दस्य तुलकादेरपि तर्ह्याकाशे उपलभ्यमानत्वात्तद्गुणत्वं प्राप्नोति, अथ तुलकादेः परमार्थतः पृथि व्यादिस्थानमाकाशे तूपलम्भो वायुना सञ्चार्यमाणत्वात्, यद्येवं तर्हि शब्दस्यापि न परमार्थतः स्थानमाकाशं किन्तु श्रोत्रादि, यत्पुनराकाशेऽवस्थानमुपलभ्यते तद्वायुना सञ्चार्यमाणत्वादवसेयं, तथाहि यतो यतो वायुः सञ्चरति ततस्ततः शब्दोऽपि गच्छति, वातप्रतिकूलशब्दस्याश्रवणात् उक्तं च- "यथा च प्रेर्यते तुलमाकाशे मातरिश्वना । तथा शब्दोऽपि किं वायोः, प्रतीपं कोऽपि शब्दवित् ॥ १ ॥” तन्नाकाशगुणः शब्दः, किन्तु पुद्गलमय इति स्थितम् । से किं तं अत्युग्गहे?, अत्युग्गहे छव्विहे पण्णत्ते, तंजहा- सोइंदिअ अत्युग्गहे चक्खिंदिअअत्युग्गहे घाणिदिअ अत्थुग्गहे जिभिदिअअत्युग्गहे फासिंदिअ अत्युग्गहे नोइंदिअअत्थुग्गहे । (सू० ३०) Jain Education International For Personal & Private Use Only शब्दस्य द्रव्यत्वम् २० 1120311 २५ "www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy