SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ सद्यन्ते, तदयुक्तं, आकाशगुणतायां शब्दस्यामूर्त्तत्वप्रसक्तेः, यो हि यद्गुणः स तत्समानधों, यथा ज्ञानमात्मनः, तथा-1 शब्दस्य हि-अमूर्त आत्मा,ततस्तद्गुणो ज्ञानमप्यमूर्तमेव, एवं शब्दोऽपि यद्याकाशगुणस्ताकाशस्यामूर्त्तत्वाच्छब्दस्यापि तद्गुण-1815 द्रव्यत्वम् त्वेनामूर्तता भवेत् , न चासौ युक्तिसङ्गता, तल्लक्षणायोगात् , मूर्त्तिविरहो ह्यमूर्तताया लक्षणं, न च शब्दानां मूर्तिविरहः, स्पर्शवत्त्वात् , तथाहि-स्पर्शवन्तः शब्दाः, तत्सम्पादुपघातदर्शनालोष्टवत् , न चायमसिद्धो हेतुः, यतो दृश्यते । सद्योजातबालकानां कण्णदेशाभ्यर्णीकृतगाढास्फालितझलरीझात्कारश्रवणतः श्रवणस्फोटो, न चेत्यमुपपातकृत्त्वम| स्पर्शवत्त्वे सम्भवति, यथा विहायसः, ततो विपक्षे गमनासम्भवान्नानैकान्तिकोऽपि, अतश्च स्पर्शवन्तः शब्दाः, तैरभिघाते गिरिगह्वरभित्त्यादिषु शब्दोत्थानालोष्टवत् , अयमपि हेतुरुभयोरपि सिद्धः, तथाहि-श्रूयन्ते तीघ्रप्रयत्नोचारितशब्दाभिघाते गिरिगह्वरादिषु प्रतिशब्दाः प्रतिदिक, ततः स्पर्शवत्त्वान्मूर्ती एव शब्दाः, 'रूपस्पर्शादिसन्निवेशो || मूर्ति'रिति वचनप्रामाण्यात् , ततः कथमिवाकाशगुणत्वं शब्दानामुपपत्तिमत् ? । अपि च-तदाकाशमेकमने वा?,13 यद्येकं तर्हि योजनलक्षादपि श्रूयते, आकाशस्यैकत्वेन शब्दस्य च तद्गुणतया दूरासन्नादिभेदाभावात् , अथानेकमेवं सति वदनदेश एव स विद्यते इति कथं भिन्नदेशवर्तिभिः श्रोतृभिः श्रूयते ?, वदनदेशाकाशगुणतया तस्य श्रोतृगतश्रोत्रे-| न्द्रियाकाशसम्बन्धाभावात् , अथ च श्रोत्रेन्द्रियाकाशसम्बन्धतया तच्छ्रवणमभ्युपगम्यते, तन्नाकाशगुणत्वाभ्युपगमः शब्दस्य श्रेयान् , नन्वाकाशगुणत्वमन्तरेण शब्दस्यावस्थानमेव नोपपद्यते, अवश्यं हि पदार्थेन स्थितिमता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy