________________
श्रीमलय
वर्तमानो दूरदेशस्थितोऽपि शृणोति, तथा च लोके वक्तारो-न वयं प्रत्यासन्ना अपि त्वदीयं वचः शृणुमः, पवनस्य श्रोतस्यप्रा. गिरीया प्रतिकूलमवस्थानात् , यदि पुनरप्राप्तमेव शब्दं रूपमिव जनाः प्रमिणुयुः तर्हि वातस्य प्रतिकूलमप्यवतिष्ठमाना रूप-2
प्तिकारिता नन्दीवृत्तिः
मिव शब्दं प्रमिणुयुः, न च प्रमिण्वन्ति, तस्मात्प्राप्ता एव शब्दपरमाणवः श्रोत्रेन्द्रियेण गृह्यन्ते इति अवश्यमभ्युपग-1 ॥१७२॥ मन्तव्यं, तथा च सति पवनस्य प्रतिकूलमवष्ठिमानानां श्रोत्रेन्द्रियं न शब्दपरमाणवो वैपुल्येन प्राप्नुवन्ति, तेषामन्यथा
वातेन नीयमानत्वात् , ततो न ते शृण्वन्तीति न काचित्क्षितिः, यदपि चोक्तं-'चाण्डालस्पर्शदोषः प्राप्नोती'ति, | तदपि चेतनाविकलपुरुषभाषितमिवासमीचीनं, स्पर्शास्पर्शव्यवस्थाया लोके काल्पनिकत्वात् , तथाहि-न स्पर्शव्य|वस्था लोके पारमार्थिकी, तथाहि-यामेव भुवमग्रे चाण्डालः स्पृशन् प्रयाति तामेव पृष्ठतः श्रोत्रियोऽपि, तथा यामेव नावमारोहति स्म चाण्डालस्तामेवारोहति श्रोत्रियोऽपि. तथा स एव मारुतश्चाण्डालमपि स्पृष्ट्वा श्रोत्रियमपि | |स्पृशति, न च तत्र लोके स्पर्शदोषव्यवस्था, तथा शब्दपुद्गलस्पर्शऽपि न भवतीति न कश्चिदोषः, अपि च-यथा केतकीदलनिचयं शतपत्रादिपुष्पनिचयं वा शिरसि निवध्य वपुषि वा मृगमदचन्दनाघवलेपनमारचय्य विपणिवीयामागत्य
॥१७२॥ चाण्डालोऽवतिष्ठते तदा तद्गतकेतकीदलादिगन्धपुद्गलाः श्रोत्रियादिनासिकाखपि प्रविशन्ति, ततस्तत्रापि चाण्डाल-18 स्पर्शदोषःप्राप्नोतीति तहोषभयान्नासिकेन्द्रियमप्राप्यकारि प्रतिपत्तव्यं, न चैतद्भवतोऽप्यागमे प्रतिपाद्यते, ततो बालिशजल्पितमेतदिति कृतं प्रसङ्गेन । केचित्पुनः श्रोत्रेन्द्रियस्य प्राप्यकारित्वमभ्युपगच्छन्तः शब्दस्याम्बरगुणत्वं प्रतिप
dain Education
al onal
For Personal & Private Use Only
www.jainelibrary.org