SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ शब्दपरमाणवो हि उत्पत्तिदेशादारभ्य सर्वतो जलतरङ्गन्यायेन प्रसरमभिगृहानाः श्रोत्रेन्द्रियदेशमागच्छन्ति, ततः सम्भ- श्रोत्रस्यप्रावित्युपघातः, ननु यदि श्रोत्रेन्द्रियं देशं प्राप्तमेव शब्दं गृह्णाति नाप्राप्तं तर्हि यथा गन्धादौ गृह्यमाणे न तत्र दूरास-18| प्तिकारिता नादितया भेदप्रतीतिरेवं शब्देऽपि न स्यात् , प्राप्तो हि विषयः परिच्छिद्यमानः सर्वोऽपि सन्निहित एव, तत्कथं तत्र दूरासन्नादिभेदप्रतीतिर्भवितुमर्हति ?, अथ च प्रतीयते शब्दो दूरासन्नादितया, तथा च लोके वक्तारः श्रूयन्ते-क-श 8 स्यापि दूरे शब्द इति, अन्यच्च-यदि प्राप्तः शब्दो गृह्यते श्रोत्रेन्द्रियेण तर्हि चाण्डालोक्तोऽपि शब्दः श्रोत्रियेण श्रोत्रे-18 न्द्रियसंस्पृष्टो गृह्यते इति श्रोत्रेन्द्रियस्य चाण्डालस्पर्शदोपप्रसङ्गः, तन्न श्रेयः श्रोत्रेन्द्रियस्य प्राप्यकारित्वं, तदेतदतिमहा-14 मोहस्य मलीमसभाषितं, त (य)तो यद्यपि शब्दः प्रासो गृह्यते श्रोत्रेन्द्रियेण तथापि यत उत्थितः शब्दस्तस्य दुरासन्नत्वे || शब्देऽपि खभाववैचित्र्यसम्भवाहरासन्नादिभेदप्रतीतिर्भवति,तथाहि-दूरादागतः शब्दः क्षीणशक्तिकत्वात्खिन्न उपल-II क्ष्यिते अस्पष्टरूपोवा, ततो लोको वदति-दूरे शब्दः श्रूयते, अस्य च वाक्यस्यायं भावार्थो-दूरादागतः शब्दः श्रूयते । | इति, स्यादेतद्-एवमतिप्रसङ्गः प्राप्नोति, तथाहि-एतदपि वक्तुं शक्यते-दूरे रूपमुपलभ्यते, किमुक्तं भवति?-दूरागतं ||१० | रूपमुपलभ्यते इति, ततश्चक्षुरपि प्राप्यकारि प्राप्नोति, न चेष्यते, तस्मान्नैतत्समीचीनमिति, तदयुक्तं, यत इह चक्षुषो | रूपकृतावनुग्रहोपघातौ नोपलभ्येते, श्रोत्रेन्द्रियस्य तु शब्दकृत उपघातोऽस्ति, एतच्च प्रागेवोक्तं, ततो नातिप्रसङ्गापादनमुपपत्तिमत् , अन्यच्च-प्रत्यासन्नोऽपि जनः पवनस्य प्रतिकूलमवतिष्ठमानः शब्दं न शृणोति, पवनवम॑नि तु *** * JainEMOHinternational For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy