________________
Jain Education
सारेण तास्ताः स्वस्वप्रक्रियाः प्रपञ्चितवन्तः, उक्तं च स्तुतिकारण - "सुनिश्चितं नः परतत्रयुक्तिषु, स्फुरन्ति याः काश्चन सूक्तिसम्पदः । तवैव ताः पूर्वमहार्णवोत्थिता, जगत्प्रमाणं जिनवाक्यविप्रुषः॥ १९ ॥” शाकटायनोऽपि यापनीययतिग्रामा|ग्रणीः खोपज्ञशब्दानुशासनवृत्तावादौ भगवतः स्तुतिमेवमाह - ' श्रीवीरममृतं ज्योतिर्नत्वाऽऽदिं सर्ववेदसाम्' अत्र च न्यासकृता व्याख्या- 'सर्ववेदसां' सर्वज्ञानानां खपरदर्शनसम्बन्धिसकलशास्त्रानुगतपरिज्ञानानाम् 'आदि' प्रभवं प्रथममुत्पत्तिकारणमिति । अत एव चेह श्रुतानामित्यत्र बहुवचनम्, अन्यथैकवचनमेव प्रयुज्यते, प्रायः श्रुतशब्दस्य केवलद्वादशाङ्गमात्रवाचिनः सर्वत्रापि सिद्धान्ते एकवचनान्ततया प्रयोगदर्शनात्, सर्वश्रुतकारणत्वेन च भगवतः स्तुतिप्रतिपादने इदमप्यावेदितं द्रष्टव्यम् - सर्वाण्यपि श्रुतानि पौरुषेयाण्येव, न किमप्यपौरुषेयमस्ति, असम्भवात्, तथाहि - शास्त्रं वचनात्मकं वचनं ताल्वोष्ठपुटपरिस्पन्दादिरूपपुरुषव्यापारान्वयव्यतिरेकानुविधायि, ततस्तदभावे कथं भवति ?, न खलु पुरुषव्यापारमन्तरेण वचनमाकाशे ध्वनदुपलभ्यते, अपि च- तदपौरुषेयं वचनमकारणत्वान्नित्यमभ्युपगम्यते, 'सदकारणवन्नित्य' मिति वचनप्रामाण्यात्, ततश्च अत्र विकल्पयुगलमवतेतीर्यते, तदपौरुषेयं वचः किमुपलभ्यस्वभावमुतानुपलभ्यखभावं ?, तत्र यद्यनुपलभ्यखभावं तर्हि तस्य नित्यत्वेनाभ्युपगमात् कदाचिदपि स्वभावाप्रच्युतेः सर्वदैवोपलम्भाभावप्रसङ्गः, अथोपलम्भखभावं तर्हि सर्वदानुपरमेनोपलभ्येत, अन्यथा तत्स्वभावता
For Personal & Private Use Only
१०
१२
jainelibrary.org