________________
श्रीमलयगिरीया नन्दीवृत्तिः ॥१६॥
हानिप्रसङ्गाद् , अथोपलभ्यखभावमपि सहकारिप्रत्ययमपेक्ष्योपलम्भमुपजनयति तेन न सर्वदोपलम्भप्रसङ्गः, तदयुक्तम् , 15 वचनस्थाएकान्तनित्यस्य सहकार्यपेक्षाया अयोगात्, ततो विशेषप्रतिलम्भलक्षणा हि तस्य तत्रापेक्षा, यदाह धर्मकीर्तिः
पौरुषेयत्व
खंडनम्. 'अपेक्षाया विशेषप्रतिलम्भलक्षणत्वादिति, न च नित्यस्य विशेषप्रतिलम्भोऽस्ति, अनित्यत्वापत्तेः, तथाहि-स विशेपप्रतिलम्भः तस्यात्मभूतः, ततो विशेषे जायमाने स एव पदार्थः तेन रूपेण जातो भवति, प्राक्तनं विशिष्टाव स्थालक्षणं रूपं विनष्टमित्यनित्यत्वापत्तिः, अथोच्येत-स विशेषप्रतिलम्भो न तस्यात्मभूतः किन्तु व्यतिरिक्तः कथमनित्य-15 त्यापत्तिः?, यद्येवं तर्हि कथं स तस्य सहकारी ?, न हि तेन सहकारिणा तस्य वचनस्य किमप्युपक्रियते, भिन्नवि-1 शेषकरणात, अथ भिन्नोऽपि विशेषः तस्य सम्बन्धी तेन तत्सम्बन्धिविशेषकरणात् तस्याप्युपकारी द्रष्टव्य इति सहकारी व्यपदिश्यते, ननु विशेषेणापि सह तस्य वचनस्य कः सम्बन्धो?, न तावत्तादात्म्यं, भिन्नत्वेनाभ्युपगमात्, नापि तदुत्पत्तिः, विकल्पद्वयानतिक्रमात्, तथाहि-किं वचनेन विशेषो जन्यते ? उत विशेषेण वचनम् , तत्र न तावदाद्यः पक्षो, विशेषस्य सहकारिणोऽभावात् , नापि द्वितीयो, वचनस्य नित्यतया कर्तमशक्यत्वाद्, अथ मा
भूदु वचनविशेषयोर्जन्यजनकभावः, आधाराधेयभावो भविष्यति, तदप्यसमीचीनम् , आधाराधेयभावस्यापि ॥ १६ ॥ वा परस्परोपकार्योपकारकभावापेक्षत्वात् , तथाहि-बदरं पतनधर्मकं सत् कुण्डेन खानन्तरदेशस्थायितया परिणामि || है जन्यते, तस्यान्यतोऽभावात् , ततः कथमनयोराधाराधेयभाव ?, अथ तेन विशेषेण वचनस्योपकारः कश्चिकि-1|२५
Jain Education.International
For Personal & Private Use Only
ainelibrary.org